पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/३९

एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

द्वयक्षरकाण्डे नपुंसकलिङ्गाध्यायः । 33 पञ्चस्वेषु पदार्थेषु हेतुर्वररुचीरितः । प्रयोजके स्वतन्त्रस्य कर्तुरित्यपि शाब्दिकाः ॥ १४०॥ इति द्व्यक्षरकाण्डे पुल्लिङ्गाध्यायः । १. अथ द्वयक्षरकाण्डे नपुंसकलिङ्गाध्यायः । अथ क्लीबेऽभिधानानि सर्वाणि कुमुदस्य हि । रजतेऽतिदिशन्त्यार्या रुधिरस्य तु कुङ्कुमे ॥ १ ॥ रूप्यस्याञ्जनभेदे स्युर्बदरस्य तु नागरे । अथाभ्रशब्दो जलदे व्योममुस्तकयोरपि ॥ २ ॥ अभ्रकाह्वयधातावप्यस्त्रमायुधचापयोः । अघं तु व्यसने पापे दुःखेऽथ स्यादलध्वनिः ॥ ३॥ हरिताले वृश्चिकस्य पुच्छकण्टक एव च । अक्षि नेत्रे तथेक्ष्वादेः काण्डस्यावयवान्तरे ॥ ४॥ अम्बुच्छन्दोविशेषे स्यान्नवत्यक्षरलक्षिते । लग्नाच्चतुर्थे राशौ स्यादिति सांवत्सरा विदुः ॥ ५ ॥ ह्वीबेरे सलिलेऽथ स्यादम्भो हीबेरतोययोः । यशीतिस्वरके छन्दस्यष्टाशीत्यक्षरे तथा ॥ ६॥ अम्भसी इति तु द्यावापृथिव्योर्द्विवचोन्तकम् । अर्णश्छन्दोविशेषेऽष्टसप्ततिस्वरके जले ॥ ७ ॥ अनोन्ने शकटे सान्त ओदने सलिलेऽपि च । अर्शो दुर्नामनि व्याधिमात्रेऽप्यङ्कस्तु संयुगे ॥ ८ ॥ स्वाङ्गभेदेऽपि चाब्जस्तु रूपे कश्चित् सरोरुहे । Shardashah (सम्भाषणम्) १५:३६, २३ नवेम्बर् २०२२ (UTC)अस्तु रूपेपत्ये च क्रियायामप्यथो अयः ॥ ९ ॥ 'घ्न' क. ख. घ. पाठः, ३३