पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/४०

एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

३४ नानार्थार्णवसंक्षेपे कालायसे सुवर्णे च स्यादाज्यं तु घृते युधि । श्रीवेष्टाह्वयनिर्यासे स्तोत्रेषु च चतुर्ष्वपि ॥ १० ॥ स्युर्बहिष्पवमानाद्यान्यूर्ध्वान्यध्वर कर्मणाम् । उन्मानभेदे चे पलसंज्ञेऽप्येतदपाठिषुः ॥ ११ ॥ आष्ट्रं तु रश्मवाकाशेऽप्यागः पापापराधयोः । रहस्ये चोक्थशब्दस्तु सामस्तोत्रेषु च त्रिषु ॥ १२॥ परेष्वग्निष्टोमसाम्न औक्थिक्ये सामलक्षणे । वैजयन्त्यां तु शस्त्राख्ययागमन्त्रेषु भाषितम् ॥ १३ ॥ अन्ये त्ववैदिकाः प्राहुः सामवेदस्य वाचकम् । सज्जनात्पठिदेनं साम्नः पर्याय एव हि ॥ १४ ॥ उरो वक्षसि मुख्येऽथ गवादीनां स्तनास्पदे । ऊधः सीमाख्यसाम्नश्च पादभेदे तथा निशि ॥ १५॥ एनः पापेऽपराधे च स्यादोजो बलतोययोः । दीप्तो प्रकाशेडवष्टम्भे काव्यालङ्कारभेदके ॥ १६ ॥ ओको गृहे जलौकायामाश्रये चाथ भूषणे । कण्वं पर्वणि किण्वं तु नग्नसंज्ञवस्तुनि ॥ १७ ॥ प िण्याके चाथ तुहिने क्षुप्रं कण्टकिगुल्मके । कूलं तीरे चमूकट्यां तटाके सूप एव च ॥ १८ ॥ क्षेत्रं पृथिव्यामाकाशे शरीरे योनिवृन्दयोः । केदारदारागारे नक्षत्रे पुरि राशिषु ॥ १९ ॥ पुण्यस्थाने च खात्रं तु चोरनिर्मितरन्ध्रके । कुद्दालेऽप्यथ गात्रं स्यात् तनोरवयवे तनौ ॥ २०॥ गजानां पूर्वजङ्घादिपादयोरथे गोत्रवाक् Shardashah (सम्भाषणम्) १५:४४, २३ नवेम्बर् २०२२ (UTC)। लोके यानेऽप्यथ चर्म फलकाख्यास्त्रवारणे ॥ २१॥१५:४४, २३ नवेम्बर् २०२२ (UTC)Shardashah (सम्भाषणम्) १. ' च' करा. घ. पा. २. 'पि' क. स. घ. पाठः, '३. 'मे' ख. ग. पाठ:: ४'न्दा' क. घ. पाठ: ५. 'पि' क. घ. पाठः,