पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/४३

एतत् पृष्ठम् परिष्कृतम् अस्ति

________________ 37 द्वयक्षरकाण्डे नपुंसकलिङ्गाध्यायः । वृक्षपत्रे केकिपिञ्छेऽप्यथ बीजं फलास्थानि । अन्ने रेतस्यपत्ये च हेतावङ्कुरकारणे ॥ ४४ ॥ स्वर्णवेतनयोर्भर्म भर्गस्तेजसि रेतसि । भुवः सूर्ये लोकभेदे महस्तूत्सवतेजसोः ॥ ४५ ॥ जले चाथ मुखं वक्रे मुख्ये ताम्राभ्युपाययोः । आदौ निस्सरणे गेहपुरादीनां च सैन्धवे ॥ ४६ ॥ द्वारेऽथ देहिनां बीजे मेदो धातौ चतुर्थके । यशस्तु सत्त्वख्यातिश्रीज्ञानमाहात्म्यवारिषु ॥ ४७ ॥ धनप्रतापयोश्चाथ यजुर्यज्ञोत्सवे तथा । मन्त्रजातिविशेषे च योक्त्रं त्वङ्गुलियोक्रयोः ॥ ४८ ॥ रत्नं स्वजातिश्रेष्ठे च माणिक्यादिमणावपि । समाम्नाये समानासीद्धने च सलिलेऽपि च ॥ ४९ ॥ रजस्तु शरदि स्त्रीणां पुष्पे रेणौ जले स्रजि । सत्त्वाद्यन्यतमे रात्रौ लोहे तेजसि रेतसि ॥ ५० ॥ अहन्यथ रहश्शब्दो मैथुने विजने तु तत् । अव्ययं वाथ राधः स्यात् प्ररूढे च धनेऽपि च ॥ ५१ ॥ रिप्रं दुःखे च पापे चेत्यामनन्ति विचक्षणाः । रेतः शुक्रे जले चाथ रोधस्तीरान्तरिक्षयोः ॥ ५२ ॥ घरणे बन्धने कुड्ये रोधसी इति रोदसोः । ललं पल्लव उद्याने लक्ष्म चिह्नप्रधानयोः ॥ ५३ ॥ स्यादुपच्छन्दने लालं गुह्यार्थपरभार्ययोः । लिङ्गं बुद्ध्यादिसंहत्यां साङ्ख्यानां प्रकृतावपि ॥ ५४ ॥ स्त्रीपुंसादौ च संस्थाने शरीरे चिह्नशेफयोः । प्रShardashah (सम्भाषणम्) १५:५९, २३ नवेम्बर् २०२२ (UTC)ज्यायामवयवे वेषेऽप्यथ वनं जले ॥ ५५ ॥ १. 'कू' ख. पाठः. २. 'के' ख. पाठः. ३. 'क्ले' क. ग. घ. पाठः. ૨૭