पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/४४

एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

३८ नानार्थार्णव संक्षेपे कानने गहने यज्ञे धनप्रीतिगभस्तिषु । वस्तु ग्रामनगर्यादिपदार्थे स्वापतेयके ॥ ५६ ॥ पदार्थमात्रेऽप्यस्यार्थंपण्डितः शाकटायनः । सदित्याह स्म वर्चस्तु विष्ठायामन्नतेजसोः ॥ ५७ ॥ लावण्येऽर्चिष्यथ वयो वत्सरे यौवने धने । १. अन्ने पक्षिणि बाल्यादौ जीवितेऽप्यथ वर्त्मवाक् ॥ ५८ ॥ मार्गे नेत्रच्छदे चाथ वर्म स्यात् कवचे गृहे । वपुः शरीरे लावण्ये जले दीप्तौ च सज्जनः ॥ ५९ ॥ वेश्म स्यान्मन्दिरे लग्नादपि राशौ तुरीयके । वैष्ट्रं तु यकृति स्वर्गे गेहेऽपि परमात्मनि ॥ ६० ॥ व्योमशब्दं तु पञ्चार्थ विद्यात् स्थाने जले दिशि । आकाशेऽक्षितसङ्ख्यायाः * सङ्ख्यायां दशकात्मनि ॥ ६१ ॥ शक्ष्यं जले सुखे चाथ शकृद् गोमयविष्ठयोः । जले च शर्म तु सुखे गृहे चाथ श्वयो बले ॥ ६२ ॥ शोषे गये श्रवस्त्वन्ने यशश्श्रोत्रबलेषु च । धने शास्त्रं तु विद्यायामाज्ञायां श्वात्रवाक् पुनः ॥ ६३ ॥ धने क्षिप्रेऽप्यथो शिल्पं कारुकर्मणि कर्मणि । Shardashah (सम्भाषणम्) १६:०७, २३ नवेम्बर् २०२२ (UTC)कर्मान्तराणां निर्माणविज्ञाने शाकटायनः ॥ ६४ ॥ शिरो मूर्ध्नि पुरः सैन्ये सामस्तोत्रान्तरे तथा । प्रधानेऽप्यथ शीर्ष स्यान्मूर्ध्नि चागुरुसंज्ञके ॥ ६५ ॥ 'द' ग. पाठः. २. 'क्य' ग. पाठः. 'वृन्दादि तु पदस्वन्थे निखर्व बद्धमक्षितम् । व्योम चान्तश्च सर्वश्व' (पु. १८८. श्री. ३०, ३१) इति वैजयन्ती ।