पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/४५

एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

१. द्वयक्षरकाण्डे नपुंसकलिङ्गाध्यायः । गन्धद्रव्येऽथं शैत्यं स्यान्नैशित्ये शौक्लयकाष्र्ण्ययोः । शीतलत्वे च शोचिस्तु पै(शङ्ग) ल्ये* शु(द्धि ग्वि) शुद्धयोः ॥ ६६ ॥ रश्मौ ज्वलति शुद्धत्वेऽप्यथ शौर्यमिति ध्वनिः । लग्नात् तृतीयराशौ च शक्त्याह्वयबले तथा ॥ ६७ ॥ शूरस्य भावक्रिययोरथ सस्यमिति ध्वनिः । वृक्षादीनां फले धान्ये धान्यस्तम्बे गुणे त्वमुम् ॥ ६८ ॥ जयादित्योऽवददथो सत्रमाच्छादने वने । द्वादशाहादियज्ञेषु सदादानेऽथ सक्थिवाक् ॥ ६९ ॥ ऊरौ च शकटाङ्गे च कस्मिंश्चिदथ सद्मवाक् । गृहे जले च रोदस्योः सद्मनी इत्यथो जले || ७० ॥ आज्ये च सर्पिः स्नानं तु स्नानीयाप्लवयोरथ | साम प्रगतिमन्त्रेषु सान्त्वसामप्रभेदयोः ॥ ७१ ॥ साधुन्यथ जले स्रोतः प्रवाहे सरितामपि । अम्भसो निर्गमद्वार इन्द्रियेऽप्यथ हर्म्यवाक् ॥ ७२ ॥ प्रासादपृष्ठ इत्येके गृहभेदे गृहेऽपि च । हरः क्रोधे जले लोके ज्योतिषि ज्वलति सजि ॥ ७३ ॥ अग्निसामविशेषेषु पञ्चस्वथ हविर्धृते । हव्ये जलेऽथ होत्वं स्याद् यजमानसमुद्रयोः ॥ ७४॥ होमहव्येऽग्निहोत्रस्य शालायां चेत्यपूर्ययम् ॥ ७४ ॥ इति द्Shardashah (सम्भाषणम्) १६:११, २३ नवेम्बर् २०२२ (UTC)व्यक्षरकाण्डे नपुंसकलिङ्गाध्यायः । ३९ 'च' क. घ, ङ. पाठः. २. 'वै' ख. घ. पाठः. ३. 'ह्नि' ख. ङ., 'हि' ग. पाउः.

  • 'शोचिः शोकांशु पैङ्गल्यशुद्धत्वेषु' (पु. २२६. लो. ३५) इति वैजयन्ती ।