पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/४८

एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

४२ नानार्थार्णव संक्षेपे विद्धं सूच्यादिभिर्भिन्ने सदृशेऽप्यथ विन्नवाक् । लब्धे विचारिते प्राप्तसत्ताकेऽप्यथ केचन ॥ २४ ॥ प्रचक्षते विग्रशब्दं मेधाविगतनासयोः । तत्तु मेधाविनि न्याय्यं गतनासे त्वसाम्प्रतम् ॥ २५ ॥ यस्मात् स्मृति'र्वैर्ध्र' इति न तु 'वेर्ग्र' इतीदृशी । तस्माद् विध्रो गतघ्राणे विग्रो मेधाविनि स्मृतः ॥ २६ ॥ विद्वान् विदद्बुधात्मज्ञेष्वाहान्यो विदुरेऽप्यमुम् । व्यूढं विन्यस्तविस्तीर्णसंहतेष्वथ वैरिवाक् ॥ २७ ॥ अरातौ वैरवति च समान्नाताथ शक्लवाक् । प्रियंवदे च शक्ते च श्लक्ष्णं त्वल्पेऽपि सुन्दरे ॥ २८ ॥ मसृणे चाथ शाली स्यात् श्लाघ्यशालिमतोरथ । शून्यं रिक्ते मोहवतो वचस्यप्यथ सज्जवाक् ॥ २९ ॥ सन्नद्धेऽपि सतो जाते स्फीतं त्वृद्धप्रभूतयोः । स्फुटं विकसिते व्याप्ते शुक्त * विस्पष्टयोरपि ॥ ३० ॥ स्वैरस्तु मन्दे स्वच्छन्दे हर्ता चोरेऽपि नेतरि ॥ ३०३ ॥ इति ध्व्यक्षरकाण्डे वाच्यलिङ्गाध्यायः । अथ द्व्१६:२५, २३ नवेम्बर् २०२२ (UTC)१६:२५, २३ नवेम्बर् २०२२ (UTC)~~यक्षरकाण्डे नानालिङ्गाध्यायः । अथ नानार्थ शब्देषु नानालिङ्गानधीमहे । प्राणिजातिषु नृस्त्रीत्वं पूर्ववत् स्याद् व्यवस्थया ॥ १ ॥ १. 'ख' ख. पाठः. २. 'खो' ख. पाठः.

  • ‘त्रिरात्रं धान्यराशिस्थं तच्छ्रुक्तं शुद्धमित्यपि' (पु. १६५. लो. ८५) इति वैजयन्ती ।