पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/५

पुटमेतत् सुपुष्टितम्

निवेदना ।


नानार्थार्णवसंक्षेपो नामायं कश्चिन्निघण्टुग्रन्थः । अस्य संशोधनाधारतया षड् आदर्शा: कैरलीलिपयस्तालपत्रात्मका आसादिताः । यथा -

(क) कैलासपुरगोविन्दपिषारोटिसकाशादधिगतः । (ख) राजकीयग्रन्थशालास्थः कार्त्तिकीशब्दान्तः । (ग) राजकीयग्रन्थशालास्थः । (घ) कण्णिकुळं नीलकण्ठनम्पूरिसंबन्धी यामशब्दान्तः । (ङ) एण्णक्काटुराजराजवर्मराजसकाशादधिगतः । (च) कण्णिकुळं नीलकण्ठनम्पूरिसम्बन्धी भूजम्बूशब्दमारभ्य ।

 अत्र नानार्थानि सलिङ्गानि नामानि एकस्वरादीनि षट्स्वरपर्यन्तानि षड्भिः काण्डैः संगृहीतानि । प्रतिकाण्डं च स्त्रीलिङ्ग पुल्लिङ्ग नपुंसकलिङ्ग वाच्य- लेङ्ग - नानालिङ्गभेदेन पञ्चाध्यायाः । अत्र जिज्ञासितम्य शब्दस्य सुखदर्शनार्थम- कारादिक्रम आदिवर्णेष्वादृतः । अमरकोशादिष्वनुपलब्धाः शब्दा अर्थाश्च बहु- लमितोऽध्येतुं शक्याः ।

 राजेन्द्रचोळसंज्ञाग्रहारवास्तव्यश्छन्दोगः केशवस्वामी चोळाधिपतेः श्रीकुलोत्तुङ्गचोळसूनोः श्रीराजराजदेवस्य चोदनया ग्रन्थमेनं प्रणिनायेत्येतत्पूर्वपीठिकातोऽवगम्यते । अत एव राजराजसंबन्धाद् 'राजराजीयम्' इत्यप्यस्य ग्रन्थस्य संज्ञान्तरम् । चोळवंशचरितसंग्रहे [] कैस्ताब्दस्य द्वादशशतके स्थित एकः कुलोत्तुङ्गचोळः कथितः, तत्पुत्र एको राजराजश्च | त्रयोदशशतकपूर्वार्धे स्थितोऽपरः कुलोत्तुङ्गो वर्णितः, तत्सूनुरपरश्च राजराजः । राजराजयोरेन- पोरन्यतर: केशवस्वामिन आश्रयः कामं सम्भाव्यते ।


*

  1. अयं द्रमिलभाषाग्रन्थ: टि. ए. गोपीनाथराय (एम.ए.) महाशयेन अनन्तशयनराजकीयपुरातनवस्तु विचारकार्यालयाध्यक्षेण प्रणीय प्रकाशितः ।