________________ 51 द्वयक्षरकाण्डे नानालिङ्गाध्यायः । क्ली तु वह्निगुणे त्रिस्तु तद्युक्ते चतुरेऽपि च । उग्रः पुंसि महादेवे मर्त्यजात्यन्तरे पुनः ॥ ९२ ॥ शूद्रायां क्षत्रियाज्जाते तेनोढायां द्वयोस्तथा । शूद्रायां ब्राह्मणाज्जाते तेनोढायामथ स्त्रियाम् ॥ ९३ ॥ वचायां च खराश्वाख्याजमोजान्तरभेषजे । उग्रा क्लीबं तु लवणे घटिकालवणाह्वये ॥ ९४ ॥ कालशेयेऽथ रौद्रे त्रि स्त्री तूस्त्रा गवि ना घृणौ । उखः पुंसि स्फिचि परे कर्णपार्श्वेऽप्यधीयते ॥ ९५ ॥ औखीयानां च शाखाया ऋषिभेदे प्रवक्तरि । स्त्री तु स्थाल्यामुखा यज्ञविदामुख्याग्निसंभृतेः ॥ ९६ ॥ साधने चतुर च स्यान्मृत्पात्रान्तरे तथा । यदग्निचयनेऽथोल्वं क्ली स्याद् गर्भाशयेऽथ तत् ॥ ९७ ॥ पुंस्याहामरदत्तोऽस्मिन्नर्थे शुल्बे तु तन्नपि । रजते भूमिभेदेऽपि सामभेदेऽथ ना क्रतौ ॥ ९८ ॥ सङ्ख्याज्ञाने विरहिते त्वेष त्रिष्वथ पेलवे । उभ्र ऊर्ध्वस्थिते च त्रिः पुमांस्तु स्याद् पयोमुचि ॥ ९९ ॥ उद्रो द्वे जलमार्जार ऋषिभेदे तु नाथ ना । उषः प्रस्थचतुर्भागे प्रभातेऽथ स्त्रियामुषा ॥ १०० ॥ अनिरुद्धस्य या पत्नी बाणासुरसुता च या । तस्यां गवि निशीथिन्यामुषा त्वन्ते निशोऽव्ययम् ॥ १०१ ॥ उडुर्विप्रे द्वयोर्नष् स्त्री नक्षत्रेऽथो उरु त्रिपु । बृहत्पुर्वी (तुति) तत्रापि स्त्र्यर्थे वा स्यादथ स्त्रियाम् ॥ १०२ ॥ उर्वी पृथिव्यां नद्यां च स्यादुदक् तु त्रिपूत्तरे । दिग्देशकालविषय उदीच्ये चाप्युदङ्मुखे ॥ १०३ ॥ १. 'मृ' ख. ग. पाठः. २. 'ल्पे' क, ख, ग, घ. पाठः. ३. ४. 'वा' क, ग. पाठः० 'च' क. ख. घ. पाठः
पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/५७
एतत् पृष्ठम् परिष्कृतम् अस्ति