ह्यक्षरकाण्डे नानालिङ्गाध्यायः । गुणवृक्षेऽल्पकूपे तु कूपी स्त्री कृप्यवाक् पुनः । क्ली पांसुलवगामिख्यलवणे भेद्यवत् पुनः ॥ २५८ ॥ कूपसाधौ त्रि तु क्रूरो नृशंसे कठिनोष्णयोः । क्रुद्धे दरिद्रे घोरे च गुणमात्रे तु पुंस्त्रयम् ॥ २५९ ॥ उष्णे च कठिने च स्यात् पूगवृक्षे स्त्रियां तु सा । बदरीकण्टकार्योः क्ली त्वस्थ्नि कूर्मस्तु कच्छपे ॥ २६० ।। द्वयोर्गजस्य त्वङ्ङ्घ्रिस्थप्रदेशे ना नखात् परे । कृष्णं नपुंसकं सीसे मरिचे दुरितेऽयासि ॥ २६१ ॥ करमर्दफले चाथ पुमान् विष्णौ हुताशने । ध्वान्तपक्षे त्रीहि भेदे व्यासे मध्यमप ण्डवे ॥ २६२ ॥ बलाहके कलियुगे करमर्दाख्यपादपे । कालवर्णेऽप्यथो नैल्ययुक्ते चकितचेतसि ॥ २६३ ॥ वाच्यलिङ्गो द्वयोस्तु स्यात् सर्पे शूद्रे मृगान्तरे | काककोकिलयोराखुजातिभेदेऽप्यथ स्त्रियाम् ॥ २६४ ॥ द्रौपद्यामथ पिप्पल्यां राजिकासंज्ञसर्षपे । जलूकाजातिभेदेषु द्वादशस्वपि षट् स्मृताः ॥ २६५ ॥ सविषास्तेषु चैकस्मिन् द्राक्षातिविषयोरपि । हिरण्याद्यास्तु याः प्रोक्ताः सप्त जिह्वाः शिवागमे ॥ २६६ ।। अग्नेस्तास्वपि चैकस्यां या दक्षिणदिशि स्थिता । कृतं तु निर्मिते त्रि स्याद् भक्ताय स्थितकिङ्करे ॥ २६७ ॥ क्लीबं त्वादियुगेऽन्नादिपक्वहव्येऽक्षदेविनाम् । अक्षपातप्रभेदे च स्तोमच्छन्दः प्रभेदयोः ।। २६८ ॥ १. 'नापिप' क. ख. घ. पाठ:.
- 'यवादि त्वकृतं हव्यं तण्डुलास्तु कृताकृतम् । अनादि कृतम्' (पु. ९१. श्लो. ९८.) इति
बैजयन्ती ।