पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/७७

एतत् पृष्ठम् परिष्कृतम् अस्ति

अक्षरकाण्डे नानालिङ्गाध्यायः । चतुष्टये कपर्दानां द्वे तु खङ्गाह्वये मृगे। अजयस्य त्विदं ग्रन्थे दृश्यते साध्वसाधु वा ॥ ३२९ ॥ गण्डको रुजि विद्यायां खङ्गे पदचतुष्टये | गञ्जा तु स्त्री सुरागेह आकरेऽन्यस्त्ववोचत ।। ३३० ॥ कोशेऽपि स्यात् तु पुंस्येष भाण्डागारेऽथ गर्जवाक् । द्वे गजे गर्जने त्वक्ली गर्जा ना तु गदो रुजि ॥ ३३१ ॥ कृष्णस्याप्यनुजे स्त्री तु गदा प्रहरणान्तरे । गद्यं त्वपादबन्धेषु ग्रन्थेषु क्ली त्रिषु त्वदः || ३३२ ॥ गदितव्ये गया तु स्त्री पुण्यक्षेत्रान्तरेऽथ ना । धने गृहेऽप्यपत्ये तु द्वे गरस्तु नृलिङ्गकः || ३३३॥ ऋषिभेदे निगरणे विषे च कृतकेऽथ नप् । जले गरा तु स्त्री देवताडसंज्ञलतान्तरे || ३३४ ॥ गर्दा स्त्री द्रवधारायां धमनीषु च वाचि ना । गतं तु क्ली गतौ ना तु प्रकारे त्रि तु ढौकिते ॥ ३३५ ॥ ग्रामादौ ढौकितवति तथातीतेऽपि सज्जनः । गीतिप्रकृतिशब्देषु ये तालव्याः स्थिता अचः ॥ ३३६ ॥ तेषामायीति शब्दोऽयं विकारो यत्र गीयते । गीतिक स शब्दोऽयं छन्दोगैरुच्यते गतः ॥ ३३७ ॥ गडुर्ना पृष्ठगैग्रन्थौ ब्रूतेऽमुं शाकटायनः । घाटामस्तकयोर्मध्ये मांसपिण्ड इति स्फुटम् ॥ ३३८ ॥ वाक्पतिस्त्वमुमध्यैष्ट वेश्योरःस्थकिणे भ्रमी । कुब्जे तु त्रिरथो गन्त्री स्त्रीलिङ्गा शकटान्तरे || ३३९ ॥ गन्ता तु यातरि त्रि स्याद् गलन्ती तु स्त्रियामियम् । कर्कर्यो च्यवमाने च भुजाने च गलत् त्रिषु ॥ ३४० ॥ १. 'न' ख. ग. पाठः, २. 'दी' क. ख. ग. पाठः, 'क' क. ङ. च. पाठः, ७१