८२ नानार्थार्णवसंक्षेपे विदारणे तु वक्रस्य जम्भा स्त्री स्त्री पुनर्जटा । केशसन्दर्भभेदे च मांसी संज्ञौषधान्तरे ॥ ४५८ ॥ तरोः शिफायां च जटीं त्वीकारान्तं प्रचक्षते । द्रोणाख्यपरिमाणस्य चत्वारिंशत्यथ त्रिषु ॥ ४५९ ॥ जटो जटावति त्रिस्तु जडोऽनालोच्यकारिणि । शीतले स्तब्धनिर्बुद्ध्योः पङ्कगन्धिजले तु नप् ॥ ४६० ॥ पुंसि शीतगुणेऽथाहाजयस्तोये जलं नपि ।
- जले तु त्रिषु जप्रस्तु द्वयोः स्याद् विप्रभेकयोः ॥ ४६१ ॥
जर्णो ना पादपे चन्द्रे कर्वे पक्षिणि तु द्वयोः । त्रिषु वृद्धेऽथ जर्तो ना स्वाङ्गे प्रजननाह्वये ॥ ४६२॥ योनिरोग्ण्यपरे कश्चिदाभीरे च जनः पुनः । जनने जननायां च प्रतिवेशविवाहयोः ॥ ४६३॥ राजन्यबन्धावप्राज्ञे मनुष्ये विति सज्जनः । क्लीबं दमनके प्राणिद्यूते चाथ जनी स्त्रियाम् ॥ ४६४ ।। जतुकृत्संज्ञवल्ल्यां च स्नुषातिबलयोरपि । जनिस्तु पत्न्यामुत्पत्तौ वरयोषिति च स्त्रियाम् ॥ ४६५॥ जायतौ तु पुमांस्त्री तु जम्बूर्जम्बूटपादपे । तत्फले जम्बु जम्बूश्च नस्त्रियोः स्यादथ द्वयोः ॥ ४६६ ॥ चतुप्पाज्जातिभेदेऽथ जत्रुर्ना घर्ममेघयोः । क्लीबेऽवसानेंऽससन्धौ जन्युस्तु द्वे शरीरिणि ॥ ४६७॥ अपत्ये च पुमांस्त्वेष प्रादुर्भावे प्रजापतौ । पितर्यपि जगत् तु क्ली जगतीति स्त्रियामपि ॥ ४६८॥ १. 'तु' ग. पाठः.
- ‘अनेडमूकस्तु जडो जलो मूक......' (पु. २०२. श्लो. १४) इति वैजयन्ती । + का