पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/१०४

एतत् पृष्ठम् परिष्कृतम् अस्ति

१०२ नानार्थार्णवसंक्षेपे गभीरा द्यावापृथिव्योर्गभीरे इति नप् पुनः । जलेऽथ त्रिषु गम्भीरं निम्ने हर्षस्तु बुद्धिमान् ।। ६३१ ॥ ब्रूते दुरवगाहे तद् गम्भीरा तु स्त्रियामियम् । वाचि द्यावापृथिव्योश्च गम्भीरे इति ना पुनः ॥ ६३२ ॥ समुद्रे चान्धकारे च मन्मथे च द्रुमान्तरे । जम्बीरसंज्ञे क्लीबं तु तत्फले सलिलेऽपि च ॥ ६३३ ॥ गहनं क्ली जलेऽरण्ये दुःखगह्वरयोस्त्रि तु । दुष्प्रवेशे गह्वरं तु क्ली गुहादम्भवारिषु ॥ ६३४ ॥ रहस्यप्युक्तवानेतच्छब्दवेदी धनञ्जयः । निकुञ्जे तु पुमानुक्तो रभसेनाथ भेद्यवत् ।। ६३५ ॥ (ग्री?भी)ष्मे च दुष्प्रवेशे च गर्गरी तु स्त्रियामियम् | दधिमन्थनपात्रे च क्षेत्रपल्ल्यां द्वयोः पुनः ।। ६३६ ॥ उग्रीवैदेहजे मर्त्यजातिभेदे झषेऽपि च । गर्वरः पुंस्यहङ्कारे महिषे तु द्वयोरथ ॥ ६३७ ॥ सन्ध्यायां गर्वरी स्त्री स्याद् गन्धर्वस्तु द्वयोर्हये । मृगभेदे गोलपुससमाख्ये दिव्यगायने || ६३८ ॥ आह गायनमात्रे च रभसः शब्दवित्तमः । अन्तराभवसत्त्वे च वास्तुदेवान्तरे तु ना || ६३९ ॥ कोष्ठपङ्क्तौ दक्षिणस्यां प्रोक्तः षष्ठपदे स्थिते । पुंस्कोकिले च रभसः प्रोक्तवानथ गन्धना ॥ ६४० ॥ न ना प्रकाशने चापि हिंसायै सूचनेऽपि च । परस्योत्साहने चापि कथिता पूर्वसूरिभिः ॥ ६४१ ॥ १. 'ये' क. ङ. च. पाठ:. २. 'द' क. पाठः