पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/१०८

एतत् पृष्ठम् परिष्कृतम् अस्ति

नानार्थार्णवसंक्षेपे पार्वत्यां निम्नगायां च मातुलुङ्ग्यां च सा स्त्रियाम् । रभसस्तु क्लीबमाह शिलाजतुनि चार्जके || ६७७ ॥ भेद्यलिङ्गस्तु स ज्ञेयो धरणीधरसम्भवे । गुणना तु न नाभ्यासे शून्याङ्के चाथ गुन्दिलः ॥ ६७८ ॥ ना मद्दलध्वनौ क्ली तु वनेऽथो गृञ्जनः पुमान् । मधुशिग्रुसमाख्ये स्याच्छिवृक्षान्तरे तथा ॥ ६७९ ॥ पलाण्डुजातिभेदानां दशानामपि कुत्रचित् । भेदेऽर्थे त्वत्र मन्यन्ते क्लीबं केचन सूरयः ॥ ६८० ॥ विषदिग्धपशोस्तु क्ली मांसे ना तु गृहस्थवाक् । द्वितीयाश्रमिणि त्रिस्तु मन्दिरस्थेऽथ पुंस्ययम् || ६८१ ।। गैरेयः शैलजाते स्यात् पूगवृक्षेऽर्थे नप्यदः । शिलाजतुन्यथ क्लीबं गोष्पदं गोखुरावटे ॥ ६८२ ॥ गोभिश्च सेविते देशे केचित् त्वर्थेऽत्र भेद्यवत् । गोस्तनो ना चतुर्यष्टिहारभेदे गवां स्तने ॥ ६८३ ॥ गोस्तनी तु स्त्रियां द्राक्षाभेदेऽथो पुन्नपुंसकम् । गोमुखो वाद्यभेदेऽथ क्लीबं स्यादुपलेपने ॥ ६८४ ॥ ब्रूते तु कुटिलागारे रभसः शब्दवित्तमः । द्वयोस्तु नक्रेऽथ पुमान् गोकर्णोऽनामया सह ॥ ६८५ ॥ अङ्गुष्ठे वितते मानं यत् तत्र श्रवणे च गोः । ईश्वरस्थानभेदे च मृगभेदे पुनर्द्वयोः ॥ ६८६ ॥ परम्पर इति ख्याते भुजगे च स्त्रियां पुनः । दूर्वासंज्ञौषधौ ज्ञेया गोकर्णी स्याद् द्वयोः पुनः ॥ ६८७ ॥ (et) क. ख. ग. पाठः, २. 'तु' ग. पाठः ३. 'प्पुनः' क... पाठः