पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/११८

एतत् पृष्ठम् परिष्कृतम् अस्ति

११६

नानार्थार्णवसंक्षेपे

जघनस्य तु सम्बन्धिन्यथो जाबालवाग्‌ द्वये । अजाजीवे जवाखाया अपत्ये चाथ जाहवी ॥ ७८८ ॥ स्त्री गङ्गायामपल्ये तु द्वे जहोजीह्नवः स्मृतः । धनञ्जयेन तु क्लीबं जाह्नवं जन्तुनि स्मृतम्‌ ॥ ७८९ ॥ अथात्र रभसेनोक्तं जाहको द्वे बिडालके । ना तु कारुण्डिकायां च घोङ्घे चेति महाधिया ॥ ७९० ॥ गन्धद्रव्ये त्गुर्वाख्ये जाङ्गलं क्ली त्रिषु त्वदः । यजङ्गरस्य सम्बन्धि तत्र द्वे तु कपिञ्चठे ॥ ७९१ ॥ खियां तु शुकरिम्न्यां स्याज्जाङ्गली ना तु जारकः । तिरे क्षारकसंजञे तु वारपूष्यान्तरे नपि ॥ ७९२ ॥ गवाक्षमेदे त्वपरे क्ली खयोमयकङकटे । नालिकाथो वागुरिक दाम्भिके च त्रि जालिकः | ७९३ ॥ दरयोस्तु खतिकासंञ्द्रजन्त्वन्तरे मतः । जाम्बवांस्त पुमान्‌ ऋक्षराजभेदे महाबरे ॥ ७९४ ॥ रामसाहायकं कतुं रावणस्य वधे पुरा । रहण जुम्भमाणस्य वक्राद्‌ यः समजायत ॥ ७९९ ॥ तत्र जाम्बवती तु खी तस्य जाम्बवतः युता । पत्नी कृता या कृष्णेन तं निहत्य रसातङे ॥ ७९६ ॥ तस्यामथ द्वयार्ज्ञेयो जिह्वालः सारमेयके । एषदंरो च ना तु स्याज्जिगतुवहिमार्गयोः ॥ ७९७ ॥ तथा प्राणेषु दिवसेऽप्यथ द्वे जाहमणेऽथ ना । शत्रौ जिषांसुशिषु तु दन्तुमिच्छो पुमान्‌ पुनः ॥ ७९८ ॥ जीवकः स्यात्‌ क्षपणके तथेवासनपादपे । त्रि तु शट प्राणितरि बृद्धयाजीविनि सेवके ॥७९९ ॥