पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/११९

एतत् पृष्ठम् परिष्कृतम् अस्ति

त्र्यक्षरकाण्डे नानालिङ्गाध्यायः

स्त्रीयां तु जीविका ज्ञेया जीवन्त्याख्यलतान्तरे । आजीवे च स्मृताथ क्ली जीवितं प्राणने तथा ॥ ८०० ॥ प्राणेषु च त्रिषु त्वेतज्जीवेर्ण्यन्तस्य कर्मणि ] तथैव प्राणितवति जीवला तु लियामियम्‌ ॥ ८०१ ॥ वचायामृषिभेदे तु नाथ कूर्ममयूरयोः । जीवथो द्वै मथ पुमान्‌ जीवन्त ऋषिभेदे ।। ८०२ ॥ जीवन्ती तु खियां ज्ञेया जीवन्त्यास्यरुतान्तरे । ज्योतिष्मयां गुलूच्यां च त्रि चु स्याज्जीवतादिति ॥ ८०२ ॥ नत जीवितरि क्लीबं तु जीवनम्‌ । जीविकायां जलेऽन्ने च प्राणने च स्त्रियां पुनः | ८०४ ॥ जीवन्त्याख्यरुताजातौ जीवनी शर्ङ्गिणस्था | नवानामपि शक्तीनामेकल्चक्तावियं पुनः ॥ ८०५ ॥ मेदासंज्ञौषधीमेदे टाबन्ता स्यादनः पुनः । जीवना जीवयत्यर्थे जीवदस्तु तु रिपौ पमान्‌ ॥ ८०६ स्याज्जीवनौषधे केचित् त्वौषधे सलिलान्नयोः। द्रव्ये च रभसस्त्वाह जीवे बहुविदां वरः।।८०८।। जुङ्गितस्तु द्वयोर्हीनवर्णे त्रिषु तु वर्जिते। क्लीबं तु वर्जनेऽथ क्ली जृम्भितं स्यात् विचेष्टिते।।८०९।। जृम्भणे च त्रि तूत्फुल्ले विवृध्देऽप्यथ पुंस्ययम्। नीललोहितसम्मिश्रवर्णे तद्वति तु त्रिषु।।८१०।।