पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/१२०

एतत् पृष्ठम् परिष्कृतम् अस्ति

नानार्थार्णवसंक्षेपे यावनालाख्यधान्ये तु जोन्नाला स्त्री त्रिषु त्वदः । ज्योतिष्मज्जोतिषा युक्ते स्त्री तु ज्योतिष्मती स्मृता ॥ ८११ ॥ पिण्ड्याख्यस्थावरे क्षुद्रधान्ये यस्याह्वयान्तरम् । गवीथुरिति ना तु स्याज्ज्योतिषो मासि कुत्रचित् ॥ ८१२ ॥ ज्योतिःसम्बन्धिनि त्रि स्याज्झर्झरं तु कलौ युगे । नदप्रभेदे च प्राह रभसः शब्दवित्तमः ॥ ८१३ ॥ वाद्यभेदे च ना त्रिस्तु विशीर्णे टट्टरस्तु ना । भेरीनादे टट्टरी तु लम्बापटहसंज्ञके ॥ ८१४ ॥ वाद्यभेदे स्त्रियां मिथ्यावादे च रभसोऽपठीत् ।

  • टागरष्टङ्गनक्षारे केकराख्ये तु वीक्षिते ॥ ८१५ ॥

अजयः प्राह रभसो हेलाविभ्रमगोचरे । ना भेद्यलिङ्गं तु तथा केकराक्षे शरीरिणि ॥ ८१६ ॥

  1. टुण्डुकस्तु पुमान् वृक्षभेदे शोणकसंज्ञके ।

स्तोकार्थे तु पठत्येनं रभसो भेद्यलिङ्गकम् ॥ ८१७ ॥ तरलं तु त्रिषु ज्ञेयं चञ्चले भाखरेऽपि च । हारमध्यगरले तु पुमान् हारे च नप् पुनः ॥ ८१८ ॥ चर्मकोशे स्त्रियां तु स्याद् यवागूसुरयोर्भवेत् । अथास्त्री खजके फेने तण्डकोऽन्यस्त्ववोचत ॥ ८१९ ॥ व्याख्यातामरकोशस्य छन्दोभेद इति श्रमात् । तरुजस्तु पुमानौ भेद्यलिङ्गं तु वृक्षजे ॥ ८२० ॥ १. 'ज्योर्नाला' क. च., 'जोर्नाला' ङ. पाठः. २. 'षे' ग. पाठः ३. 'विशेषे शोणसं' ४. 'धु' ग. पाठः. गं. पाठः,

  • 'टगरष्टङ्गनक्षारे ना केकरारी त्रिषु' (पृ. २६०. श्लो. ४१) इति तु वैजयन्ती ।

'टगरष्टङ्कणक्षारे हेलाविभ्रमगोचरे' इति मेदिनी । 'अथ टगरष्टङ्कणकेकराक्षयोः' इति हेमचन्द्र । + 'टुण्डक: शोणकाल्पयोः' इति तु मेदिनी ।.