पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/१५२

एतत् पृष्ठम् परिष्कृतम् अस्ति

१५० नानार्थार्णवसंक्षेपे पिशीली तु स्त्रियां वीणाभेदे त्रिषु तु पिच्छिलः । पिच्छाख्यगुणसंयुक्ते विजिलाख्ये स्त्रियां पुनः ॥ ११७२ ॥ पिच्छिला शिंशपायां च पोतक्यां शल्मलावपि । सिन्धुभेदे च रभसः कीर्तयामास ना पुनः ॥ ११७३ ॥ पिच्छोलः सरलाभिख्यतरौ कटविशेषके । कटोलसंज्ञे वंशे च वीणाभेदे तु सा स्त्रियाम् ॥ १९७४ ॥ पिच्छोला ना तु पिच्छूलो राशौ लिङ्गत्रये पुनः । पिच्छूली स्यात् तृणस्तम्बे पिप्पलं तु जले नपि ॥ ११७५ ॥ बस्त्रच्छेदप्रभेदे च सूचीसूत्रे पि चूचुके । वृक्षाणां च फले ना तु स्यादश्वत्थेऽथ पिप्पली || ११७६ ॥ इस्तिनः कर्णमूले च कणायां च स्त्रियामियम् । मृज्यमानेति वर्गस्य सामभेदे च सप्तमे ॥ ११७७ ॥ इमां निरगुले पक्षिभेदे च रभसोऽब्रवीत् । +पिदारस्तु क्षपणके नृलिङ्गः परिकीर्तितः ॥ ११७८ ॥ द्वयोस्तु विद्याद् गोपे च महिषीरक्षकेऽपि च । पिप्परस्तु पुमान् वृक्षभेदे स्यात् स्त्री तु पिप्परी ॥ ११७९ ॥ अन्यत्र पिप्परा वृक्षमेदे स्यात् पिठरं तु नप् | मन्थानदण्डेऽपि प्राह रभसः शब्दवित्तमः ॥ ११८० ।। मुस्तके पिठरी तु स्यात् स्थाल्यां स्त्री शण्डलिङ्गकः । स्थाल्यांतूक्ता पृथग् ब्रूत उखायां शाकटायनः ॥ १९८१ ॥ पित्तलं त्वारसंज्ञे क्की लोहभेदे स्त्रियां पुनः । पित्तला तोयपिप्पल्यां त्रिस्तु पित्तकरे भवेत् ॥ ११८२ ॥ १. 'कोलकः' क. ग. 'कीलसः ।' च पाठः. + 'अंथ पिच्छिल: । विज्जले' इति तु हेमचन्द्रः । † 'पिण्डार: क्षपणे गोपे महिषीरक्षकें द्रुमे । ' इति तु मेदिनी ।