पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/१५६

एतत् पृष्ठम् परिष्कृतम् अस्ति

१५४ नानार्थार्णवसंक्षेपे स्याद् रावणे वैश्रवणे पौलस्त्योऽयं द्वयोः पुनः । पुलस्त्यवंश्ये विज्ञेयः क्ली तु युद्धेऽप्यथास्त्रियाम् ॥ १२१८ ॥ काष्ठासने स्यात् फलकं शस्त्राणां च निवारणे । खेटकाख्येऽथ फलकी मत्स्यजात्यन्तरे स्त्रियाम् ॥ १२१९ ॥ भवेच्चित्रफलीसंज्ञे तथा स्याच्चन्दनेऽपि च । क्षुमासंज्ञे तु ना धान्ये फल्गुनी तु स्त्रियामियम् ।। १२२० ।॥ भगदैवतनक्षत्रे तथैवार्यमदैवते । ताभ्यां युक्ते कालमात्रे जाते त्वत्र त्रि फल्गुनः ॥ १२२१ ॥ स्रूयर्थे वृत्तिर्यदा तत्र तदा स्यात् फल्गुनी स्त्रियाम् । फल्गुनस्तु पुमानेव ज्ञेयो मध्यमपाण्डवे ॥ १२२२ ॥ फक्किका तु स्त्रियामेकग्रन्थे गौरे च सर्षपे । त्रिस्तु फक्कितरि त्रिस्तु फलकी चर्मपाणिके || १२२३ ॥ स्त्री त्वजायां फलकिनी पौर्णमास्यां तु फाल्गुनी | फल्गुन्या संयुतायां स्त्री सा तु मासेऽस्ति यत्र हि ॥ १२२४ ॥ तत्र ना फाल्गुनः क्ली तु तृणजात्यन्तरेऽथ नप् । फाणितं गौडविकृतिभेदेऽथ क्वाथिते त्रिषु ॥ १२२५ ॥ फेनिलस्तु पुमान् वृक्षविशेषेऽरिष्टसंज्ञके । त्रिस्तु फेनवति क्ली तु विज्ञेयं बदरीफले || १२२६ ॥ बन्धुरस्तु द्वयोर्हंसे त्रिस्तु सुन्दरनम्रयोः । उन्नतानत इत्यन्ये रभसस्त्वस्त्रिया(मिम)यम् ॥ १२२७ ॥ बन्धूके पक्षिभेदे चेत्यथ बन्धूर इत्यमुम् । एष्वेवार्थेषु रभसस्तत्तल्लिङ्गमवोचत । १२२८ ॥ बहुलस्तु पुमानग्नौ कृष्णपक्षे च नीपके । त्रिस्तु कृष्णे प्रभूते च कृत्तिकाकालजातके ॥ १२२९ ।। ९. 'च' ग. पाठः,