पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/१६४

एतत् पृष्ठम् परिष्कृतम् अस्ति

नानार्थार्णवसंक्षेपे भूतानाममनुष्येऽथ भूमिस्पृग् वैश्यमर्त्ययोः । द्वयोः स्प्रष्टरि तु स्याद् भूमेरथ नृलिङ्गकः ॥ १३०९ ॥ भृङ्गारः कनकाल्वां स्याद् भृङ्गारी तु स्त्रियामियम् । झिल्लिकासंज्ञके कीटे चक्रे तु भृमलं नपि ॥ १३१० ॥ ना तु वायौ द्वयोस्तु स्यात् कृमिजात्यन्तरेऽथ नप् | भेषजं स्यात् सुखे तोये ह्यौषधे तु हि भेषजी || १३११ ॥ स्त्रीनपोर्भैरवं तु त्रि(हि?र्भी)मे स्याद् भैरवी पुनः सप्तानामपि मातॄणामेकस्यां मातरि स्मृता ॥ १३१२ ॥ भोजनं तु धने भुक्तौ क्लीबं स्याद् भोजना पुनः । नप्स्त्रियोर्भोजयत्यर्थे भोगवत् तु त्रिषु स्मृतम् ॥ १३१३ ॥ भोगयुक्ते द्वयोन्तु स्याद् भुजगे भोगवानथ । नद्यां नगर्यो नागानामियं भोगवती स्त्रियाम् || १३१४ ॥ वैजयन्ती तु पातालगङ्गायामित्यभाषत । भौरिकः कनकाध्यक्षे त्रिः पुम्भूम्नि तु भौरिकाः ॥ १३१५ ॥ प्राग्देशावस्थिते नीवृद्भेदे समतटाह्वये । अथ मङ्गलमस्त्री स्यात् कल्याणे त्रि तु तद्वति ॥ १३१६ ॥ मल्लिकागन्धसदृशगन्धयुक्ते च वस्तुनि | मङ्गला सितदूर्वायां स्त्रियां रभस उक्तवान् ॥ १३१७ ॥ क्लीबं तु मल्लिका पुष्पगन्धे लब्धार्थरक्षणे । पुमांस्त्वङ्गारके ग्रामवास्तुभेदे च केचन ॥ १३१८ ॥ मङ्गल्यं तु निमित्ते स्यान्मङ्गलस्याभिधेयवत् । मल्लिकापुष्पगन्धेन युक्ते वस्तुनि चाथ नप् ॥ १३१९ ॥ ज्ञेयं सर्वौषधिस्नाने दध्नि चाथ नृलिङ्गकः । बिल्वे मसूरसंज्ञे च धान्ये स्याद् रभसः पुनः || १३२० ॥