पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/१७०

एतत् पृष्ठम् परिष्कृतम् अस्ति

नानार्थार्णवसंक्षेपे रसे च मधुराभिख्ये भेद्यलिङ्गं तु तद्वति । मठरस्त्वृषिभेदे ना भेद्यवत् त्वलसे पुनः ॥ १३७९ ॥ मठरं तु द्रवीभूते दधन्यतीव नपुंसकम् । त्रि तु कण्ठगतप्राणे कृमिजात्यन्तरे द्वयोः ॥ १३८० ॥ ना त्वग्नौ मरतो जन्तौ द्वे मन्दाक्षं पुनर्नपि । लज्जायां मन्ददृष्टौ तु त्रिषु मन्देन्द्रियेऽपि च ।। १३८१ ॥ मत्स्याक्षी तु स्त्रियां ब्राह्मीसंज्ञानूपतृणान्तरे । मत्स्याक्षस्तु पुमाञ्छाकस्तम्चे पत्तूरसंज्ञके || १३८२ ।। पुंस्त्रियोस्तु मरीचिः स्याद् गभस्तिमृगतृष्णयोः । अष्टके त्रसरेणूनां लिक्षाख्यपरिमाणके ॥ १३८३ ॥ सप्तानामृषिभेदानामयमन्यतमे पुमान् । मधुवाक् तु द्वयोर्जेयः कोकिले भेद्यवत् पुनः ॥ १३८४ ।। मधुरा यस्य वाक् तत्र मत्स्यराट् तु द्वयोरयम् । मकराख्ये जलचरे मत्स्यानां त्वधिपे पुमान् ॥ १३८५ ॥ मण्डली तु द्वयोः सर्पजातिभेदेषु केषुचित् । षड्विंशतौ मण्डलवदर्थे तु त्रिष्वथ स्त्रियाम् || १३८६ ।। आवलौ मालिकाप्याढ्यजनानां मन्दिरान्तरे | सप्तलासंज्ञके पुष्पवल्लिभेदेऽप्यसौ स्मृता ॥ १३८७ ॥ भूयोऽपि रभसेनोक्ता चतुर्ष्वर्थेषु मालिका । ग्रैवेयके पुष्पमाल्ये पुत्रिकाहस्तिमल्लयोः ।। १३८८ ॥ आकारान्ताथ सर्वासु पुष्पवल्लीषु मालकी । ईकारान्ताथ न स्त्री स्यान्मालकं खेटकाह्वये ॥ १३८९ ॥ १. 'जान्वनौ' क. च. पाठ:. २. 'रुजो ज' च., 'रतौ ज' ग. पाठः. ४. 'नामधि' ग. पाठः. च. पाठः

  • 'तथा' इति स्यात् ।

३. 'त्त'