पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/१७३

एतत् पृष्ठम् परिष्कृतम् अस्ति

त्र्यक्षरकाण्डे नानालिङ्गाध्यायः । चित्ते हैमवते चापि सरोभेदेऽपि यज्वनाम्। प्रसिद्धे स्तोत्रभेदेऽपि यज्ञगे मनसः पुनः ॥ १४१४ ॥ सम्बन्धिनि त्रिषु क्ली तु मासिकं पुंसि केचन | मासि श्राद्धे त्रिषु पुनर्मासं भूतभृतादिषु ॥ १४१५ ॥ मानवस्तु मनुष्ये द्वे मनुसम्बन्धिनि त्रिषु । माणवस्तु पुमान् हारभेदे षोडशयष्टिके || १४१६ ॥ द्वे तु बाले कुपुरुषेऽप्यथ पुंम्भूम्नि मालवा: । अवन्त्याख्ये जनपदे तन्निवासजने द्वयोः ॥ १४१७ ॥ सर्वैश्च वचनैर्योगी मर्त्यजात्यन्तरे तथा । पुरातने तु मधुनि माधुकं क्ली त्रिषु त्वदः ॥ १४१८ ॥ यत् स्यान्मधुकसम्बन्धि तस्मिन्नथ नृलिङ्गकः | माधुरः षोडशेऽरलौ मूलादारभ्य यस्य हि ॥ १४१९ ॥ अरत्नयः सप्तदश तस्य यूपस्य स त्रि तु । सम्बन्धे मधुरेणाथ मालाकारे हि मालिकः ॥ १४२० ॥ द्वे मालावति तु त्रि स्यान्माक्षिकं तु नपुंसकम् | सारघे मधुनि स्याच्च शैलधात्वन्तरे तथा ॥ १४२१ ॥ चक्रसंज्ञे मक्षिकायाः पुनः सम्बन्धिनि त्रिषु । माषाशी तु तुरङ्गे द्वे माषस्य त्वाशके त्रिषु || १४२२ ॥ मिहिरस्तु पुमान् सूर्यवायुमेधेषु नब् जले । मिथुनं तु क्लीबलिङ्गं स्त्रीपुंसयुगले तथा ॥ १४२३ ॥ मधुसर्पिर्द्वये राशौ तृतीये स्याद् द्वयोर्गणे । युग्माख्ये तद्वति पुनस्त्रिषु स्यान्मिथुनंः* पुनः ॥ १४२४ ॥ 'ने पु' ङ. च. पाठः. 'जायापती तु मिथुने जम्पती दम्पती इति' (पृ. १७७. श्लो. ४८) इति तु वैजयन्ती ।