पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/१७४

एतत् पृष्ठम् परिष्कृतम् अस्ति

नानार्थार्णवसंक्षेपे दम्पत्योः पुंसि नब्लिङ्गं पुनः स्याच्च घृताञ्जने । मिश्रकं यजमानस्य त्रि तु मिश्रयितर्यसौ ॥ १४२५ ॥ मिथुनी तु द्वयोः खञ्जरीटाख्ये पक्षिणि त्रि तु । भवेन्मिथुनवत्येव मुसलस्तु नृशण्डयोः || १४२६ || अवघातोपकरणदण्डे स्त्री तु मुसल्यसौ । गृहगोधासमाख्ये स्याज्जन्तौ कुस्तुम्बुरुण्यपि ॥ १४२७ ॥ तालमूलीसमाख्ये च स्तम्बेऽथ मुचिरः पुमान् । सूर्ये मेघे च धर्मे च त्रि तु दातरि ना पुनः ॥ १४२८ ।। मुहिर: पूष्णि कन्दर्पे क्लीबं तु तमसि स्मृतम् । मुखरस्तु त्रिषु ज्ञेयो दुर्मुखे स्त्री तु पक्षिणि ।। १४२९ ॥ मुखरा शारिकासंज्ञे मुण्डितं त्वभिधेयवत् । उप्तकेशे स्त्रियां त्वेषा श्रमणीति हि विश्रुते ॥ १४३० ॥ भैषज्यशाकस्तम्बेऽथ मुद्गरो द्रुहिणे नरि । मल्लिकायां च रभसः पुनर्वेण्वादिभेदने ॥ १४३१ ॥ क्लीबं तु मल्लिकामेदे त्रिषु मुद्द्रस्य दातरि । मुष्टिकस्तु पुमान् स्वर्णकारे स्यात् स्त्री तु मुष्टिका ॥ १४३२ ॥ कर्मारस्योपकरणभेदे ना तु मुसल्यसौ । बलभद्रेश्वभेदे च यस्यैको घतिकः (?) + +॥ १४३३ ॥ त्रि स्यान्मुसलवत्यर्थे मूषिकस्तु द्वयोरयम् । आखुजातौ यदा तु स्यात् स्त्रियां वृत्तिस्तदा भवेत् ॥ १४३४ ॥ मूषिका निर्विषाणां च जातिभेदे जलौकसाम् । अनिष्टगन्धे विज्ञेयो मूषिकैः सदृशाकृतौ ॥ १४३५ ॥ १ 'तस्त्व' क. च. पाठ:. २. 'घ' क. ङ. च. पाठः, ३. 'य स्या' ग., 'द्यसिक: त्रि' ङ. पाठः ‘मुसल्यन्यप्रभैकाङ्घ्रिः’ (पृ. ११२. श्लो. ९७) इत्यश्वभेदे वैजयन्ती । . सिकः । यत्