पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/१७७

एतत् पृष्ठम् परिष्कृतम् अस्ति

त्र्यक्षरकाण्डे नानालिङ्गाध्यायः । यशोदा त्वग्निचित्याया इष्टकासु च कासुचित् । नन्दगोपस्य भार्यायां त्रिस्तु कीत्रिः प्रदातरि ॥ १४५९ ॥ यवनस्तु द्वयोर्मर्त्यजातिभेदे यदुद्भवः । शूद्रायां क्षत्रियादन्ये पुनराहुर्मनीषिणः ।। १४६० ॥ वैश्यायां क्षत्रियाज्जात इति पुम्भूम्नि तु स्मृतः । नीवृद्भेदे हि यवना हुरुकैरसमाख्य ॥ १४६९ ॥ तद्देशजातमर्त्ये तु द्वयोः सर्ववचस्यपि । क्लीबं तु मिश्रणेऽथ स्याद् यजत्रं क्लीबलिङ्गकम् ॥ १४६२ ॥ अग्निहोत्रे च यज्ञोपकरणे चाथ भेद्यवत् । यजनीयेऽथ नब्लिङ्गं यमकं कवयो विदुः ॥ १४६३ ॥ भिन्नार्थवर्णसङ्घातावृत्तिरूपे व्यवस्थिते । काव्यालङ्कारभेदे स्यात् तैलसर्पिर्द्वयेऽपि च ॥ १४६४ ।। रभसस्तु वदत्येतत् संयमे यमलेऽपि च । अथो यमयितर्येतद् भेद्यवत् स्याद् द्वयोः पुनः ।। १४६५ ।। यज्ञार्हः कृष्णसाराख्यमृगे त्रिर्यागयोग्यके । यज्ञियस्तु पुमान् मुजे यज्ञकर्माहके त्रिषु ॥ १४६६ ॥ यविष्ठः सवनाहुत्यर्थेऽग्नौ ना भेद्यवत् पुनः । भवेद् युवतमेऽथ स्याद् याजकः पुंसि ऋत्विजि ॥ १४६७ ॥ स्याद् यष्टृयाजयित्रोस्त्रिरथ स्यात् पुंसि याज्ञिकः । कुशे च याजके चापि रभसः प्रोक्तवानमुम् ॥ १४६८ ॥ यज्ञविद्यामधीयाने विदत्यप्यथ भेद्यवत् । यज्ञेन जयतीत्यादौ याजन्यस्तु पुमानयम् ॥ १४६९ ॥ यज्ञे द्वे तु क्षत्रियेऽथ यापना नस्त्रियोर्भवेत् । प्रस्थापने निरसने वर्तने रभसः पुनः ॥ १४७० ॥ १. 'स्क' क. रु. च. पाठः २. 'शले या' ग. पाठः,