पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/१८२

एतत् पृष्ठम् परिष्कृतम् अस्ति

८० नानाथर्णवसंक्षेपे रुवथो ना ध्वनौ द्वे तु कुक्कुटे शाकटायनः । पुनरब्रूतः शकुनौ रेवटं तु नपुंसकम् ॥ १५१८ ॥ दक्षिणावर्तशङ्खे च रेणुवातूलयोः पुमान् । विषवैद्ये पुनर्द्वे स्याद् रेचनं तु नपुंसकम् ॥ ११९९ ॥ रिक्तौ रेचयतेस्त्वर्थे रेचना न पुमानथ । रेचनी स्त्री त्रिवृत्संज्ञलतायां रभसः पुनः ॥ १५२० ॥ दन्तिकासंज्ञके गुल्मे कम्पिल्लेऽप्यथ रेचितम् । क्लीबं वियोजने चापि तथा संपर्चनेऽपि च ॥ १५२१ ॥ तथा रेचयतेरर्थे कृतायामेकया ध्रुवा । भ्रूकुटौ तुरगाणां च गतिभेदेषु पञ्चसु || १५२२ ॥ धारासंज्ञेषु कस्मिंश्चिद् गतिभेदेऽस्य लक्षणम् । आवक्रद्रुतगत्यात्मेत्यथ तद्वति भेद्यवत् ॥ १५२३ ॥ कर्मभूते रेचयतेः सम्पृक्ते च वियोजिते । रैवतस्तु पुमान् वारिवाहभूधरयोः स्मृतः ॥ १५२४ ॥ आरग्वधे शैलभेदे शङ्करे रभसोऽपठीत् । रेवतीकालजाते च तथा मेदूवति स्मृतः ॥ १५२५ ॥ नपुंसकपदार्थे तु शण्डलिङ्गः स्त्रियां पुनः । जातार्थे रेवतीत्येव लुप्यते क्षेत्र तद्धितः ॥ १५२६ ॥ सम्बन्धिनि तु रेवत्या भेद्यलिङ्गं हि रैवतम् । रोचना तु स्त्रियां रक्तकल्हारेऽपि वरस्त्रियाम् ॥ १५२७ ।। ईकारान्ता तु संज्ञेया रोचनी त्रिवृदाह्वये । लताभेदे परेऽन्ये तु कृष्णत्रिवृति मन्वते ॥ १५२८ ॥ 'ल्ये' ग. पाठः, २. 'त' क. ङ. च. पाठ: