पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/१९१

एतत् पृष्ठम् परिष्कृतम् अस्ति

त्र्यक्षरकाण्डे नानालिङ्गाध्यायः । सिंहोक्तो हस्तिपिप्पल्यां कार्पासास्थ्नि तु वर्वरः । लुब्धके ना पारसीकजने तु द्वे स्त्रियां पुनः ॥ १६२२ ॥ भार्यायां वर्वरी नद्यां केशविन्यसनान्तरे । भेद्यवत् त्वधमे वक्रकेशे च वरकस्तु ना ॥ १६२३ ॥ वनमुद्गे कोद्रवस्य प्रभेदे रूक्षणाह्वये । अस्त्रियां तु द्विखण्डाख्ये भवेत् प्रावरणान्तरे ॥ १६२४ ॥ वठरस्तु शठे स्थूले त्रिषु वर्षे तु पुंस्ययम् । वधकस्तु पुमान् व्याधौ पद्मबीजे तु नप्यदः ॥ १६२५ ॥ भेद्यवद् घातके ना तु वरणः पादपान्तरे । तिक्तशाकाह्वये चैव प्राकारे चैव नप्यदः ॥ १६२६ ॥ सम्भक्तावावृतौ चाथ वरुणो ना प्रचेतसि । वरुणाह्वयवृक्षे च महोदररुजान्तरे || १६२७ ॥ जलोदराख्ये क्ली त्वप्सु प्रसवेऽत्रोक्तशाखिनः | वसन्तस्त्वृतुभेदे ना सुरभ्याख्ये त्रिषु त्वयम् ॥ १६२८ ॥ क्रियायां वसतेर्धातोः कर्तर्यत्रापि च स्त्रियाम् । यदा वृत्तिस्तदा रूपं वसन्तीति पुमान् पुनः ॥ १६२९ ॥ वहन्तो रथरेणौ स्यात् त्रि तु वाहक्रियाकृति । तत्र स्त्र्यर्थे यदा वृत्तिर्वहन्तीति तदा भवेत् ॥ १६३० ।। ना विस्तृतकरे हस्ते क्ली ताम्रे मैकरेऽपि च । वल्लूरं तु वनक्षेत्र ऊषरे वाहने च नप् ॥ १६३१ ।। वल्लूरा तु त्रयी शुष्कमांससूकरमांसयोः । वधूलस्तु गजे द्वे स्यादृषिभेदे तु पुंम्ययम् || १३३२ || स्याद् रसायनतन्त्रस्य कर्तरि स्यात् तु भेद्यवत् । वरिष्ठः स्यादुरुतमे तथा वरतमेऽपि च || १६३३ ॥ 'त' ङ. पाठ:.