नानार्थार्णवसंक्षेपे द्वे तु तित्तिरिसंज्ञे स्यात् पक्षिजात्यन्तरेऽथ सा । वडवा घोटकान्तायां स्त्रीभेदेऽपि च विश्रुते ॥ १६३४ ॥ कामतन्त्रविदां कुम्भदास्यां च रभसस्त्वमुम् । द्विजाङ्गनायां च प्राह शब्दज्ञोऽथ नृलिङ्गकः ॥ १६३५ ॥ यं पुमांसं वृषं सन्तमारोहन्ति यियप्सवः । गावस्तत्र गुदे तु स्याद् वनिष्ठुर्ना द्वयोः पुनः || १६३६ ॥ अश्वे त्रिषु तु सम्भक्ते वचक्तुस्तु पुमानयम् । आचार्य श्रोत्रिये चाथ ब्राह्मणे द्वे त्रि वाग्मिनि ॥ १६३७ ॥ वन्दना तु न ना स्तुत्यामभिवादन एव च । वर्षाभूस्तु द्वयोर्भेके वर्षाभ्वीति यदा तदा ।। १६३८ ।। वृत्तिः स्याद् योनिमत्यर्थे तथा गण्डूपदेऽपि च । भेकोक्तन्यायभावः स्यात् परेषां तु मतं विदुः || १६३९ ।। पुनर्नवासमाख्यायामोषधौ स्त्रीति तत् पुनः । स्यात् संशयितमस्माभिर्यतश्छन्दसि दृश्यते ॥ १६४० ।। अनादिसम्प्रदायात्ते प्रयोगे कण्ठजोष्मवान् । व्युत्पन्नो ह्वयतेर्धातोर्वर्षाहूशब्द एष वै ॥ १६४१ ॥ उन्नम्भयेति वर्षाह्वा जुहोतीति ततश्च सः । अपभ्रष्ट उताहोस्विद् वर्षाभूरिति चापरः ॥ १६४२ ॥ पुनर्नवायां शब्दोऽस्ति व्युत्पन्नो भवतेरिति । व्युत्पाद्यमानो भवतेर्मण्डूके सावकाशकः ।। १६४३ ।। तस्मात् पुनर्नवायां स्यादयमोष्ठ्यभकारवान् । सन्दिग्धोऽथ त्रिषु ज्ञेयो वसुमान् वसुसंयुते ॥ १६४४ ॥ १. 'कं ना' क. पाठ: २. 'क्त' क. पाठ:. ३. 'दि' ग. पाठः. बचक्नुरिति अभिधानान्तरे लिखितम् ।
पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/१९२
एतत् पृष्ठम् परिष्कृतम् अस्ति