पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/२०३

एतत् पृष्ठम् परिष्कृतम् अस्ति

त्र्यक्षरकाण्डे नानालिङ्गाध्यायः । ब्राह्मण्यां तत्र माहिष्यात् त्रिस्तु वेणुविकारके । क्ली तु स्वर्णविशेषे स्याद् वेणूतटसमुद्भवे ॥ १७६० ।। तु कर्णिकारप्रभेऽथो ना शम्बरो गिरिमेघयोः । दैत्यभेदे च विज्ञेयो यो बिभर्त्यारसा स्त्रियम् ॥ १७६१ ॥ द्वे तु स्यान्मृगभेदेऽल्पहरिणे मत्स्य एव च । क्लीबं तु सलिले बौद्धव्रतभेदे बलेऽप्यथ ॥ १७६२ ॥ शबरो मर्त्यजातेर्द्वे प्रभेदे यस्य सम्भवः । शूद्राद् भिल्लस्त्रियां स्त्री तु शबरी तापसस्त्रियाम् ॥ १७६३ ॥ रामायणप्रसिद्धायां पुल्लिङ्गस्तु महेश्वरे । नपुंसकं तु सलिले शबलस्तु नृलिङ्गकः ॥ १७६४ ।। चित्रवर्णवृषे चित्रवर्णे च त्रि तु तद्वति । शबली तु स्त्रियां चित्रवर्णगव्यामथ द्वयोः ॥ १७६५ ।। शफरो मत्स्यभेदे स्यात् प्रोष्ठीसंज्ञे स्त्रियां पुनः । शफरी वृक्षभेदे स्यादश्मन्तक इति श्रुते ॥ १७६६ ॥ शलली नप् स्त्रियोः श्वाविल्लोम्नि श्वाविधि तु द्वयोः । शण्डिलस्त्वृषिभेदे ना पार्वत्यां शाण्डिली स्त्रियाम् ॥ १७६७ ।। जलशुक्तौ तु शम्बूको द्वे शम्बूका तु सा स्त्रियाम् । गजस्य मुखमध्यस्य पार्श्वाघोदेशयोरथ ॥ १७६८ || ना सूक्ष्मे तण्डुलकणे तण्डुलस्य मलेऽपि च । शल्यकस्तु पुमाञ्छ्रेतखदिरे कदराह्वये || १७६९ ॥ शल्यकी तु द्वयोर्ज्ञेया मृगभेदेऽथ शस्त्रकः । पुंसि स्याट्टङ्कणक्षारे क्ली त्वयस्यथ स द्वयोः ॥ १७७० ॥ शरभः सिंहशत्रौ स्यादष्टपात्संज्ञके मृगे । मृगान्तरे च रभसः करभे चोक्तवानमुम् ॥ १७७१ ॥ २०१