पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/२०४

एतत् पृष्ठम् परिष्कृतम् अस्ति

२०२ नानार्थार्णवसंक्षेपे . स्त्रियां तु शरभा कन्यास्वविवाद्यासु कुत्रचित् । विशीर्णाङ्गयां द्वयोस्तु स्याच्छकुलो मत्स्यभेदके ॥ १७७२ ॥ स्त्री तु कूश्माण्डवल्ल्यां स्याच्छकुला शमनस्तु ना। यमे क्लीबं तु शान्तौ स्यादना तु शमना भवेत् ॥ १७७३ ॥ वघेऽपि शमयत्यर्थे त्रि तु स्याच्छान्तिसाधने । श्वसनस्तु पुमान् वायौ मदनाख्ये च पादपे ॥ १७७४ ॥ क्ली तु श्वासक्रियायां स्याच्छ्रपचस्तु द्वयोरयम् । मर्त्यजात्यन्तरे विप्राचण्डालप्रभवे तथा ॥ १७७५ ॥ निष्ठचादनन्यपूर्वायां किरात्यां जानते त्रि तु । शुनः पक्तर्यथ द्वे स्याच्छ्रपाको मनुजान्तरे || १७७६ ॥ विप्रयामम्बष्ठजे क्षत्तुर्जाते चोग्रस्त्रियामथ। उग्रात् क्षत्रस्त्रियां जात इति केचित् पुमान् पुनः ॥ १७७७ ॥ शुन: पाके पुमांस्तु स्याच्छशुरो जनके भवेत् । भार्या (मातरि ? या अपि) पत्युश्च रभसस्त्वत्र भाषते ॥ १७७८ ॥ स्त्रीलिङ्गा श्वशुरा ब्राह्मचामित्येवं शब्दकोविदः । देवरे तु श्वशुर्यो ना द्वे तु स्याले पुमान् पुनः ॥ १७७९ ॥ शशाङ्के शयुनः स्वप्ने द्वयोस्त्वजगरेऽथ ना । प्रदोषे शयथो मृत्यौ मत्स्ये त्वजगरे द्वयोः ॥ १७८० ॥ भेद्यलिङ्गस्तु निद्रालौ शयनं तु नृशण्डयोः । शय्यायां क्ली तु सुरते सावेशे शरठं तु नप् ॥ १७८१ ॥ आयुधे चैव चापे च क्रीडाशीले तु भेद्यवत् । शकलस्त्वृषिभेदे ना खण्डे तु नरशण्डयोः ॥ १७८२ ॥ रागद्रव्यविशेषे च वल्कलेऽप्यथ भेद्यवत् । शकलो मूर्खधनिनोर्नी॑वृद्भेदे नृभूमनि ॥ १७८३ ॥ १. 'झंतु' क. ग. ङ. पाठः. २. 'पा' क. ङ. च. पाठ: ३. 'ण्डला न' ग. पाठ,