पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/२०५

एतत् पृष्ठम् परिष्कृतम् अस्ति

त्र्यक्षरकाण्डे नानालिङ्गाध्यायः । शकुटस्तु पुमाञ्छाकस्तम्बभेदे स्त्रियां पुनः । हस्तिनः पश्चिमं भागं विभज्य दशधोर्ध्वतः ॥ १७८४ ।। आरभ्य पञ्चमे भागे शकुटाथ शकोटवाक् । बाहौ ना भेद्यवच्छक्ते शताङ्गस्तु रथे पुमान् ॥ १७८५ ॥ पूर्ववत् स्यात् समासादि श्रपणा तु न पुंस्यसौ । धातोः श्रपयतेरर्थे श्रपणी तु स्त्रियामियम् ॥ १७८६ ॥ स्यात् स्रुग्विशेषेऽग्निहोत्रहवर्णासंज्ञकेऽथ नप् । श्रान्तौ स्याच्छ्रमणं स्त्री तु श्रमणी मुण्डिकाह्वये ॥ १७८७ ॥ भैषज्यस्तम्बभेदे स्याद् रभसस्त्वाह शब्दवित् । दध्याल्याख्यलतायां च द्वे तु क्षपणकेऽथ नप् ॥ १७८८ ।। श्रवणं स्याच्छृणोत्यर्थे श्रोत्रे चाथ नृलिङ्गकः । विष्णुदेवतनक्षत्रे तद्युक्ते कालमात्रके ॥ १७८९॥ श्रवणा तु स्त्रियां रात्रिविशेषे पूर्णिमान्तरे । प्राणिभेदे पुन स्याच्छ्रविष्ठा तु स्त्रियामियम् ॥ १७९० ॥ वसुदेवतनक्षत्रे तद्युक्ते कालमात्रके । जाते तु तत्र त्रिरथो शत्रुघ्नो ना कनीयसि ॥ १७९१ ॥ काकुत्स्थस्य सुमित्राजे त्रिस्तु शत्रोर्निहन्तरि । शर्वरो ना महादेवे चन्द्रे च तमसि त्वदः ॥ १७९२ ॥ क्सी स्त्री तु शर्वरी रात्रौ सन्ध्यायामपि योषिति | · अथ स्त्री शमिता चूर्णे गोधूमस्येति यादवः || १७९३ ॥ असाध्विव तदाभाति शब्दज्ञानां यदग्रणीः । गोधूमचूर्णे समिधं धान्तं पुल्लिङ्गमुक्तवान् || १७९४ || • शाकटायन आचार्यस्तस्यापभ्रंश इत्ययम् । भासते सापि साध्वी चेदीप्स्ये शमयतेत्रिषु ॥ १७९५ ॥ २०३ १. 'क' क. ग पाठः, २. 'क' क. पाठः, ३. 'द' ग. पाठः, ४. 'चा' ङ. पाठः,