पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/२०६

एतत् पृष्ठम् परिष्कृतम् अस्ति

२०४ नानार्थार्णवसंक्षेपे शकुन्तस्तु द्वयोः पक्षिमात्रे भासाख्यपक्षिणि । शकुनस्तु विहङ्गे द्वे पुंसि त्वजय उक्तवान् ॥ १७९६ ॥ मित्रे क्ली तु निमित्ताख्ये शुभादे: सूचकेऽथ ना । शकुनिर्धृतराष्ट्रस्य पक्ष्ये पूर्वनृपान्तरे ॥ १७९७ ॥ द्वे तु पक्षिणि चिल्लाख्ये पक्षिमात्रेऽप्यथ द्वयोः । तु शयालुः क्रोष्टरि त्रिस्तु निद्रालावथ पुंस्ययम् ॥ १७९८ ॥ उदुम्बरद्रुमे ज्ञेयः शयालुरपरे पुनः । वृक्षावयवभेदे च क्ली तूदुम्बरजे फले ॥ १७९९ ॥ गन्धद्रव्यविशेषे च फले त्वा॑मे त्रि शाखिनाम् । श्रद्धालुस्तु त्रिषु श्रद्धाशीले स्त्रीलिङ्गवाक् पुनः ॥ १८०० ॥ स्त्रीविशेषे विजानीयात् प्राज्ञो दोहदसंयुते । शकैलूर्देवताभेदे स्त्रियां पुंसि त्वधीयते ॥ १८०१ ॥ वनस्पतिविशेषेऽथ शब्दप्राट् शिष्यके द्वयोः । त्रि तु शाव्देऽथ शतपाच्छताङ्घ्रौ त्रि स्त्रियां पुनः ॥ १८०२ ॥ ज्ञेया शतपदी कर्णजलौकायामथ द्वयोः । मत्स्ये स्याच्छकली त्रिस्तु शकलेन समायुते ॥ १८०३ ॥ शारदस्तु पुमान् पीतमुद्गे संवत्सरेऽपि च । त्रिस्त्वषृष्टे च शुद्धे च शरत्पक्वादिकेषु च ॥ १८०४ ॥ शारस्य दातयपि च रभसोऽप्रतिभेऽपि च । प्रत्यग्रे च स्त्रियां तु स्यात् सप्तपर्णाख्यपादपे ॥ १८०५ ॥ शारदी तोयपिप्पल्यामप्यथो शार्वरं नपि । • स्यादन्धतमसे त्रिस्तु घातुकेऽथ त्रि शार्करः ॥ १८०६ ॥ शर्करावति नप् तु स्याद् योनोवर्गसमुत्थयोः । साम्नोर्माध्वीकसंज्ञे तु मधुमद्ये पुमानयम् ॥ १८०७ ॥ १. 'थामे' क. च. पाठः, २. 'त्र' क. च. पाठ:. ३. 'तन्धूर्दे' ग, पाठ: ४. 'क्षा' क. ङ. च. पाठः.