पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/२१

एतत् पृष्ठम् परिष्कृतम् अस्ति

त्र्यक्षरकाण्डे पुंल्लिङ्गाध्यायः । जीमूतस्तु गिरौ मेघे देवताडाख्यवल्लिषु । अथोत्तरार्धे रभसः पपाठ बहुवित्तमः ॥ ९० ॥ तमालो वरुणे खड्गे तापिञ्छे तिलकेऽपि च । तपनस्तु रवौ चन्द्रे घर्मेऽपि च पशावपि ॥ ९१ ।। त्र्यङ्गग: शिक्यभेदे च विधौ जन्यां च कीर्तितः । तन्यतुस्तु रवावुक्तौ गिरौ च परिकीर्तितः ।। ९२ ॥ तमोनुत् त्वमिचन्द्रार्केष्वथ तापिञ्छ इत्ययम् । सिंहेनोक्तस्तमालद्रौ काकतुण्ड्यां तु यादवः ॥ ९३ ॥ त्रिवर्गो धर्मकामार्थत्रयेऽप्योषे फलत्रिके । स्थितिवृद्धिक्षये राज्ञां त्रयाणां वर्ग एव च ॥ ९४ ॥ त्रिककुत् तु त्रिकूटाख्यपर्वतेऽपि च शार्ङ्गिणि । त्रिधामा वासुदेवेग्नौ दलवस्तु दलान्तरे || ९५ ।। धनञ्जयस्तु विदले प्राह प्रहरणेऽप्यथ । कुलालचक्रे वहने दण्डार: स्थिरयन्त्रके || ९६ ॥ दरथो विवरे भीत्यां दिक्षु चापि प्रसारणे । दमुनास्तु रवौ वहावुत्तरार्धं तु राभसम् ॥ ९७ ॥ स्यान्मयूरशिखायां च यवान्यामपि दीव्यकः । द्रुघणस्तु विरिञ्चे च मुद्गलेऽप्यथ देवलः ॥ ९८ ।। ऋषिभेदे तथा देवाजीवे चाप्यथ देवयुः | धार्मिके याजके होमे दैत्यारिर्विष्णुदेवयोः ॥ ९९ ॥ नरेन्द्रस्तु नृपे मन्त्रवादिन्याह तु यादवः | विषवैद्येऽथ नभस ऋतौ व्योम्नि सरित्पतौ ॥ १०० ॥ + 'यटं शिक्यभेदेऽपि धौताञ्जन्यां च न द्वयोः' इति तु मेदिनी ।