पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/२१०

एतत् पृष्ठम् परिष्कृतम् अस्ति

२०८ भाति । नानार्थार्णवसंक्षेपे नील्याख्यायामोषधौ स्यादामलक्यां तु शब्दवित् । रभसोऽथ श्रीघनः स्याद् बुद्धे ना क्ली तु् दध्नप्रदः ॥ १८४२ ॥ श्रीपर्णे त्वग्निमन्थारूयस्थावरे कमले च नप् । श्रीपर्णी तु स्त्रियां वृक्षे कार्ष्ण्ये कट्फलेऽपि च ॥ १८४३ ॥ शीर्षण्यं +तु शिरस्त्राणे योधानां शीर्षकाह्वये । केशे तु विशदे त्रि स्यान्मुख्ये मूर्धभवेऽपि च ॥ १८४४ ॥ अवैदिकास्तु शब्दज्ञम्मन्याः केचिदधीयते । तालव्योष्मादिरस्त्रीति शु (षु? षि) रध्वनिरस्य ते ॥ १८४५ ॥ अर्थं वदन्ति विवरं रभसस्तु नखाह्वये । भेषजेऽप्यपठीद् वाद्यभेदे त्वजय उक्तवान् ॥ १८४६ ॥ पाशादिके छिद्रयुक्ते पुनस्त्रिरिति चोक्तवान् । एतच्चासाम्प्रतं यस्मात् * (तालव्योष्मादिरेव?) हि ॥ १८४७ ॥ वैदिका अनुमन्यन्ते तस्य चार्थाः पृथक् कृताः । शुनकस्वृषिभेदे ना शुनि द्वे (तु नृलिङ्गकः?) ॥ १८४८ ॥ मर्त्यजात्यन्तरे विप्राच्छूद्रायां व्यभिचारतः । जाते शूलवति त्वेतत् त्रिरथो शृङ्खला त्रयी ॥ १८४९ ॥ कटिसूत्रे भवेत् पुसां पादबन्धनवस्तुनि । अपि स्याद् दन्तिनां ना तु शृङ्गार: स्याद् रसान्तरे || १८५० ॥ नवानां नाट्यविख्यातरसानामुज्ज्वलाह्वये । गजमण्डनभेदे च क्लींबं तु रभसोऽपठीत् ॥ १८५१ ॥ लम्पटे चापि सिन्दूरचूर्णे चाथ नपुंसकम् । शृङ्गाटं यन्त्रभेदे च योधानां स्याच्चतुष्पथे ॥ १८५२ ॥ १. 'ष्ठा' ड. च. पाठ: + 'क्ली' इति स्यात् । २. 'क' ग. पाठः. 'ना' इति स्यात् । * 'दन्तजोष्मादिमेव' इति पठितव्यं $ 'ना व शूलिकः' इति स्यात् ।