पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/२४

एतत् पृष्ठम् परिष्कृतम् अस्ति

२२ नानार्थार्णवसंक्षेपे रन्ध्रे च प्रथितत्वे चाप्याचारप्रतियानयोः । सनादिशब्दावयवे तथैव स्यात् सुबादिषु || १२३ ॥ प्रभवः स्यादपां मूले विक्रमे जन्मकारणे । आद्योपलब्धिस्थानेऽथ प्रतापे स्यात् प्रभाववाक् ॥ १२४ ॥ माहात्म्ये च प्रग्रहस्तु बन्द्यामारग्वधद्रुमे । तुलासूत्रेऽश्वादिरश्मौ रश्मौ नियमनेऽर्चने ॥ १२५ ॥ प्रग्राहस्तु तुलासूत्रे तथैवाश्वादिरश्मिषु । प्रवहो वायुभेदे स्याद् वायुमात्रे बहिर्गतौ ॥ १२६ ॥ प्रवाहस्तु प्रकृष्टाश्वे जलवेगे प्रवर्तने । परम्परायामपि च प्रकरस्तु कदम्बके ॥ १२७ ॥ तथैव ततपुष्पादौ भेदसादृश्ययोः पुनः । प्रकारोऽथ प्रमाथ: स्याद्धिंसायां च प्रमन्थने ॥ १२८ ॥ वैजयन्तीसमुद्दिष्टो धन्विनां लस्तकग्रहे । प्रस्तरो मणिपाषाणकुशेषु कथितो बुधैः ॥ १२९ ॥ प्रस्तारस्तु प्रस्तरणे वृत्तविन्यसनेऽपि च । प्रस्तावः स्यादवसरेऽधिकारे सामवेदिनाम् || १३० ॥ साम्नः प्रथमभक्तौ च प्रक्रमः स्यादुपक्रमे । प्रमाणभेदे सोऽप्युक्तो द्विपदस्त्रिपदोऽपि वा ॥ १३१ ॥ अथ प्रयामो नीवाके प्रयात्ये च प्रकीर्तितः । प्रसवो जननानुज्ञापुत्रेषु फलपुष्पयोः ॥ १३२ ॥ पारम्पर्यप्रसङ्गेऽपि प्राणिनां गर्भमोचने । प्रेरणे प्रसृतौ चाथ प्रसरः प्रणवे स्मृतः ॥ १३३ ॥ १. 'ना' क. ख. पाठ:. २. 'व' क. ङ. पाठः.

  • 'लस्तको धनुषो मध्यम्' (पृ. ११८. श्लो. १७७) इति वैजयन्ती । + 'प्रायत्ये' इति

स्यात् । + 'पारम्पर्ये प्रसङ्गेऽपि' (पृ. २४३. लो. ४८) इति तु वैजयन्ती ।