पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/३३

एतत् पृष्ठम् परिष्कृतम् अस्ति

त्र्यक्षरकाण्डे पुंल्लिङ्गाध्यायः । शमिता त्वम्लदुग्धार्द्रा पक्वा खण्डे घृतोत्तरे । संयावोऽयं युतश्चूर्णैः खण्डैलामरिचर्द्रकैः ॥ २२८ ॥ इत्येवमथ सङ्घातः समूहे हननेऽस्थनि । काव्यजातिविशेषे च तथैव नरकान्तरे ॥ २२९ ॥ संस्त्यायस्तु गृहे चैव सन्निवेशसमूहयोः । रभसो विस्तृतौ चाथ सं(स्तास्त)र : सुस्तरेऽध्वरे || २३० ॥ स्वस्तरस्तु स्तृतौ स्वस्य विक्षिप्ततॄणसञ्चये । संस्कार उत्कर्षाधाने सतः सङ्कल्प एव च ॥ २३१ ॥ स्यमीकस्त्वपि वल्मीके नृपगोत्रे च कुत्रचित् । वृक्षेऽप्यथ समीकः स्यादर्णव मिथुनेऽपि च ॥ २३२ ॥ सम्पर्दो मर्दने युद्धेऽप्यथ सन्दंश इत्ययम् । लोहकारोपकरणभेदे सन्दंशनेऽपि च ॥ २३३ ॥ एकाहक्रतुभेदे चाप्यभिचारात्मके द्विषाम् । सन्नयः समवाये च पृष्ठस्थायिबलेऽपि च ॥ २३४ ॥ संवर्तस्त्वृषिभेदे स्याद् वत्सरे च जगत्क्षये । संवर्तनायां संवृत्तौ सङ्घर्षः स्पर्धने तथा ॥ २३५ ॥ सङ्घर्षणे संपुटस्तु समुद्गे मन्त्रवादिनाम् । मन्त्राक्षरप्रग्रथनप्रभेदे चाजयः पुनः ।। २३६ ॥ कलिकायां शवरुकेऽप्यथ संमर्श इत्ययम् । तर्के संमर्शने चाथ सन्देहः संशये तथा ॥ २३७ ॥ आत्मसंज्ञे मध्यकाये सहोरस्तु महीधरे । विष्णौ चाप्यथ संरोधः क्षये संरोधनेऽपि च ॥ २३८ ॥ १. 'श्रु' ख. पाठः २' 'त' ख. ग. पाठः. 4 शमिता गोधूमचूर्णम् । + 'कुरवके' इति स्यात् । ।