पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/३९

एतत् पृष्ठम् परिष्कृतम् अस्ति

त्र्यक्षरकाण्डे नपुंसकलिङ्गाध्यायः । आदौ प्रधाने प्रमुखं प्रज्ञानं बुद्धिचिह्नयोः । प्रसूनं पुष्पफलयोः प्रपदं तु पदाग्रके ॥ ४७ ॥ निगदाख्ययजुर्वेदविशेषे प्लवनं पुनः । उन्मज्जने प्लतीभावे क्रमणे च प्रकीर्तितम् ॥ ४८ ॥ पञ्चत्वं पञ्चतायां च मरणेऽथ पचत्रवाक् । स्थाल्यां स्याद् रन्धनार्थायां तथैवापूपकारके || ४९ || पतत्रं गरुति व्योम्नि पत्राङ्गं रक्तचन्दने । भूर्जे च पतनं तु स्यात् पा(त्रे?ते) तरुपलाशके ॥ ५० ॥ द्विजातिकर्मभ्यो हानौ पत्तनं तु पुरे विदुः । पुटभेदनसंज्ञे तु क्षुद्रग्रामे परे विदुः॥ ५१ ॥ क्रयविक्रयभूमौ तु केचिदन्ये तु सूरयः । नौभिरेव तु यद् गम्यं पत्तनं तत् प्रचक्षते ५२ ॥ पट्टनं तु पुरेऽन्ये तु पुटभेदनसंज्ञके । क्षुद्रग्रामे परे त्वाहुः सर्वशब्दार्थकोविदाः ॥ ५३ ॥ पट्टनं शकटैर्गम्यं घोटकैर्नौभिरेव च । पद्मकं पद्मकाष्ठे स्याद्धस्तिनां बिन्दुजालके ॥ १४ ॥ परीरं तु हले ज्ञेयं तथा हलमुखेऽपि च । पवीरं तु हैले केचिद् रङ्गस्थाने परे विदुः ॥ ५५ ॥ प्रान्तरं तु वने ज्ञेयं दूरशून्ये च वर्त्मनि । रसातले तु पातालं बडवानल एव च ॥ ५६ ॥ पीयूषं त्वमृते दुग्धे नवसूतगवीभवे । पुरीषं मृत्तिकाचूर्णे विष्ठायां सलिलेऽपि च ॥ ५७ ॥ मालाबन्धविशेषे तु भक्षभेदे च पूरिमम् । बडिशं त्वध्वमानस्य विशेषे स्याद् विरज्जुके ॥ १८ ॥ १. 'प' ख. ड., 'परे के' ग. पाठः, २. 'त' ग. पाठः.