पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/४०

एतत् पृष्ठम् परिष्कृतम् अस्ति

नानार्थार्णवसंक्षेपे मत्स्यवेधनयन्त्रे च ब्राह्मण्यं तु द्विजन्मनाम् । समूहे ब्राह्मणानां च जानीयाद् भावकर्मणोः ॥ १९ ॥ अथ बाह्रव मित्येतद्धिङ्गुकुङ्कुमयोः स्मृतम् । भस्मकं तु विडङ्गे स्याद् व्याधिभेदेऽथ भण्डनम् ॥ ६० ॥ परिहासे च दुग्धे च कवचे च प्रकीर्तितम् । भावित्रं तु भवेद् भद्रे त्रैलोक्ये चाथ भूतिकम् ॥ ६१ ॥ भूनिम्बे भूस्तृणे चैव यवान्यामपि कत्तृणे । भोजनं तु भवेद् भुक्तौ मन्दनं स्तुतिमोदयोः ॥ ६२ ॥ गतौ मदे च स्वप्ने च मणीचं त्वपि मौक्तिके | अग्रहस्ते च पुष्पेऽथ महिनं राज्यशय्ययोः ॥ ६३ ॥ मैथुनं रतिसङ्गयोर्यागोपकरणे पुनः । यजत्रसंज्ञे यजनं यागे चाप्यथ यावसम् ॥ ६४ ॥ मित्रे भक्ततृणे चाथ तारुण्ये यौवनं तथा । युवतीनां समूहे च वचनं तूक्तिवाक्ययोः ॥ ६५ ॥ आच्छादनक्रियायां तु वसनं वस्त्र एव च । स्यान्निवास क्रियायां च वहनं त्वपि धारणे ॥ ६६ ॥ भारस्य स्यन्दतेश्वार्थे रथादीनां च यापने । रथभेदे च विज्ञेयं चतुरश्रे सकूबरे ॥ ६७ ॥ वहित्रं तु विजानीयाद् वहनाख्यरथान्तरे । यानपात्रे च पोताख्ये वधत्रं त्वायुधे स्मृतम् ॥ ६८ ॥ शूरे धवयिमर्माख्ये(?) कन्दुके च प्रकीर्तितम् । तन्तुवायस्य दण्डे च शाकटायन उक्तवान् ॥ ६९ ॥ १. 'ल्ह' ग. पाठः. २. 'ही' ङ. पाठः.

  • ‘बाहीकं रामठेऽपि च' इत्यमरः । कोशान्तरे तु कुक्कुमार्थको बाल्दकशन्दो दृश्यते ।