पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/४१

एतत् पृष्ठम् परिष्कृतम् अस्ति

त्र्यक्षरकाण्डे नपुंसकलिङ्गाध्यायः । व्यसनं सक्तिविपदोर्दैवानिष्टफलेंऽहसि । पैशुन्यादौ च कोपार्थे मृगयादौ च कामजे ॥ ७० ॥ निक्षेपे निष्फलोद्योगेऽप्यशुभे च प्रकीर्तितम् । वार्धकं वृद्धसङ्घाते वृद्धत्वे वृद्धकर्मणि ॥ ७१ ॥ उत्तरस्त्वद्भुतश्लोको रभसेन समीरितः ।

  • काकचिण्डीभवे बीजे वारिक्रिमिजनीरयोः ॥ ७२ ॥

दक्षिणावर्तशङ्खे च +वार्दूरं स्यादितीदृशम् । विधानं हस्तिकबले प्रेरणेऽभ्यर्चने धने || ७३ || वेदनायामुपाये च प्रकारे वैरकर्मणि । विष्टपं त्वपि देवानां विमाने भुवने तथा ॥ ७४ ॥ व्युत्थानं प्रतिकूलत्वे स्वातन्त्र्यकरणेऽपि च । सिंहस्तु प्रतिरोघे च विरोधाचरणेऽपि च ॥ ७५ ।। वेष्टनं मुकुटोष्णीषवाटेषु श्रोत्रशकुलौ । तथा परिवृतौ चाथ वैकक्ष्यमुरसि स्थिते || ७६ ॥ तिर्यकक्षिप्ते पुष्पमाल्ये तथा प्रावरणेऽपि च । शमलं तु भवेत् पापे विष्ठायां च प्रकीर्तितम् ॥ ७७ ॥ शासनं निग्रहे लेख्ये वेदवाक्येषु कर्मणि । वाङ्नियोगे प्रहरणे शास्त्रे ग्रामे च निष्करे ।। ७८ ॥ आज्ञायामुपदेशे च शालूकं तूत्पलादिनः । कन्दे स्यात् पङ्कगन्धे च जले शालारवाक् पुनः ॥ ७९ ॥ सोपाने स्याद्धस्तिनखे पक्षिणामपि पञ्जरे । अथो शिताम(?) दोष्णि स्याद् योनौ यकृति मेदसि ॥ ८० ॥ ३९

  • गुञ्जापर्यायोऽयं 'काकचिञ्ची' इति पठ्यते कोशान्तरे । + 'वादरं कृष्णलाबीजदक्षि

"णावर्तशङ्खयोः' इति तु मेदिनी ।