पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/४३

एतत् पृष्ठम् परिष्कृतम् अस्ति

त्र्यक्षरकाण्डे वाच्यलिङ्गाध्यायः । अक्षये चाप्यकुप्ये च रेतस्यप्यथ बोधत । वराटहेमरेतंस्सु हिरणं रभसोऽपठीत् ॥ ९२ ॥ हृदयं तूरसि स्वान्ते वृके च रभसोऽपठीत् ।। ९२३ ॥ इति त्र्यक्षरकाण्डे नपुंसकलिङ्गाध्यायः ।

अथ त्र्यक्षरकाण्डे वाच्यलिङ्गाध्यायः । अथाभिधेयलिङ्गानां त्र्यक्षराणां प्रणीयते । अध्यायोऽध्यक्षशब्दोऽयं प्रत्यक्षेऽधिकृतेऽप्यथ ॥ १ ॥ अभ्यग्रोऽभिमुखे नव्ये समीपेऽप्यघमः पुनः । न्यूनेऽपि गर्हितेऽधीरः पुनर्भीरौ च चञ्चले ॥ २ ॥ अवरस्त्वप्रशस्ते स्यादर्वाच्यप्यखिलं पुनः । कृत्स्ने गर्ह्येऽनुगस्तु स्यादनुगामिनि सेवके ॥ ३ ॥ अगाढोऽनवगाढे चाप्यभृशे च प्रकीर्तितः । अथानक्षरवाक्ये चाप्यवक्तव्येऽप्यवाच्यवाक् ॥ ४॥ अगर्ह्ये चाथ रभसः प्रमादीदमवोचत । अवद्यमपशब्दे च गर्ह्ये चेत्याप्लुतः पुनः ॥ ५ ॥ स्नाते चापि समावृत्तेऽथात्मीयो निजमित्रयोः । आविद्धं कुटिले क्षिप्ते रभसस्तु पराहते ॥ ६ ॥ आहार्यमाहर्तव्ये चाभिनये भूषणादिभिः । कृते स्यादाहतं तु स्यात् ताडिते गुणिते हते ॥ ७ ॥ मृषार्थवाक्येऽप्याहाथो आदृतः सादरेऽर्चिते । आपन्नस्तु विपन्ने च प्राप्ते च कथितो बुधैः ॥ ८ ॥