पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/५

एतत् पृष्ठम् परिष्कृतम् अस्ति

त्र्यक्षरकाण्डे स्त्रीलिङ्गाध्यायः । कारवी बाप्पिकासंज्ञभेषजे कृष्णजीरके । अजमोजाविशेषे च खराश्वासंज्ञके तथा ॥ २१ ॥ शतपुष्पासमाख्ये च भैषज्ये भाषिता बुधैः । कालिन्दी यमुनानद्यां कृष्णभार्यान्तरे तथा ॥ २२ ॥ किणिही स्यादरामार्गे गिरिकर्व्यां च भाषिता । कुसृतिस्तु कुमार्गे स्यात् कुगतौ शाठ्य एव च ॥ २३ ॥ कूर्चिका मस्तुपिण्डे स्यात् सूचितूलिकयोरपि । कवाटस्याङ्कुटे चापि खलिनी तु खलब्रजे ॥ २४ ॥ वाराहीमुसलीत्यादिपदैः स्तम्बे च विश्रुते । ग्रहणी तूदरव्याधिविशेषे मृत्युमेययोः ॥ २५ ॥ भद्राशंठ्योन्तु गन्धालीत्येतद् रभसभाषितम् । गुहूची (त्यत्व) मृतानाम्नि वल्ल्यां कुतुम्बुरुप्यपि ॥ २६ ॥ गोजिहा दार्विका संज्ञस्थावरे परिकीर्तिता | मनःशिलायां गोश्चापि जिह्वायां क्षुद्रधान्यके ॥ २७ ॥ गवीथुरिति विख्याते गोलोमी तु वचाह्वये । भेषजे सितदूर्वायां भूतकेशाख्यवस्तुनि ॥ २८ ॥ घटिका तु मुहूर्ताख्ये काले नाडीद्वयात्मके । गवादिदोहपात्रे च पारिसं प्रकीर्तिता ॥ २९ ॥ घृताची त्वप्सरोभेदे निशायां च प्रकीर्तिता । चर्चरी चर्भटिरिति प्रसिद्धे हास्यवाक्यके ॥ ३० ॥ उक्ता कर्पटिकानां च गीतभेदे मनीषिभिः । चिरण्टी त्ववगन्तव्या द्वितीयवयसि स्त्रियाम् ॥ ३१ ॥ सुवासिनीति प्रथिते स्त्रीविशेषे च कोविदैः । चुलकी शिशुमा ( री रे ) स्यात् कुण्डीभेदे कुलान्तरे || ३२ ॥ १. 'बी' ख. ङ. पाठः. २. 'शा' क. ङ. पाठः ३. 'रि' ग. ह. पाट:. ● 'बुलकी शिशुमारे स्यात् कुण्डीभेदे कुलान्तरे' इति तु मेदिनी ।