पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/७

एतत् पृष्ठम् परिष्कृतम् अस्ति

त्र्यक्षरकाण्डे स्त्रीलिङ्गाध्यायः । क्षितौ ह्रस्वेऽपि पठिता समाम्नाये मनीषिणा । प्रतिमा तु प्रतिकृतौ गजानां दन्तबन्धने ॥ ४५ ॥ रभसोऽनुकृतौ चाह खेये तु परिखाम्बुधौ । भूभृत्यपि समाम्नाता समाम्नाये मनीषिणा ॥ ४६ ॥ प्रकृतिः पञ्चभूतेषु स्वभावे मूलकारणे । कारणे शिश्चयोन्योश्च जन्त्वमात्यादिमातृषु ॥ ४७ ॥ प्रत्ययात् पूर्वभागे चच्छन्दसोश्चोभयोरपि । अष्टाक्षरेऽप्यत्युक्ताख्ये तथा सलिलसंज्ञके ॥ ४८ ॥ विज्ञेया चतुराशीतिस्वरे च प्रसृतिः पुनः । तन्तौ वाचि च जाले वा तात्पर्येऽपि च बन्धने || ४९ ॥ अथ प्रवृत्तिर्वार्तायां व्यापारे हस्तिनां मदे । कुलत्थसंज्ञधान्ये चाप्युच्चारेऽपि च सज्जनः ॥ ५० ॥ प्रवाहे च प्रसूतिस्तु पुत्रयोरपि जन्मनि । प्रसवाख्यक्रियायां च बल्लीविस्तारयोः पुनः ॥ ११ ॥ प्रततिर्वैजयन्त्यां तु वीरुधीत्याह शब्दवित् । पक्षतिः पक्षमूलेऽपि प्रतिपत्संज्ञके तिथौ ॥ १२ ॥ पद्धतिः पथि पङ्क्तौ च परीष्टिस्तु परीक्षणे । मार्गणे परिचर्यायामभितो यजनेऽपि च ॥ १३ ॥ प्रवेणी तु कुथायां च वेण्यां चाथ मतोल्यसौ । पुरस्य गोपुरे चापि रथ्यायां प्रतिषत् पुनः ॥ १४ ॥ स्याद् बहिप्पवमानस्य प्रथमायामृचि स्मृता । पक्षस्य प्रथमायां च तिथौ बाधेऽपि कीर्तिता ॥ ॥ १५ ॥ प्राचिका तु भवेत् तत्र या भवेद् वनमक्षिका । श्येनासंज्ञविहङ्गे च पालङ्क्यां तु प्रकीर्तिता ॥ १६ ॥ शाकभेदे च रभसः सल्लवयामध्यभाषत । पापर्द्धिर्मृगयायां स्यात् पापर्द्धौ च प्रकीर्तिता ॥ १७ ॥