पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/८०

एतत् पृष्ठम् परिष्कृतम् अस्ति

नानाथीर्णवसंक्षेपे मर्त्यजात्यन्तरे तु द्वे पुल्कसीशूद्रसम्भवे । ऋकरस्तु करीरद्रौ दीनकचयोश्च ना || ३६२ ॥ द्वयोस्तु पक्षिभेदे स्यादेतद्रभसभाषितम् । करटस्तु पुमान् विल्वे गजगण्डेऽप्यथाब्रवीत् || ३६३ ॥ रभसोऽमुं नवश्राद्धे शब्दवेदी द्वयोः पुनः । काके दुर्दुरुटे तु त्रिः कुङ्कुमे तु नपुंसकम् ॥ ३६४ ॥ करटा तु स्त्रियां दुःखदोह्यायां गवि नप् पुनः । करोटं वस्त्रकोशे च कपाले शिरसस्तथा ॥ ३६५ ॥ द्वे तु भृत्ये घनाम्लायां य्वागुल्यां स्यात् करोटिका । कपटो ना वर्णभेदे स्तुि तद्वत्यथ द्वयोः || ३६६ ॥ कितवेऽथ कपोतो ना वर्णभेदे त्रि तद्वति । द्वे तु पारावताभिख्यखगेऽन्यस्मिन्नपि कचित् ॥ ३६७ ।। गृहप्रवेशनायोग्ये पक्षिभेदेऽथ कर्परः । पुमान् घटादिशकले कपालाख्ये शिरोस्थान || ३६८ ॥ कटाहे शस्त्रभेदे च वृक्षस्यावयवान्तरे । रसाञ्जने तु स्त्रीलिङ्गा कर्परीति विदुर्बुधाः ॥ ३६९ ॥ कर्पूरोऽस्त्री चन्द्रसंज्ञगन्धद्रव्ये स्त्रियां पुनः । कर्पूरी नागवल्लयाख्यवल्लीभेदेऽथ कर्बुरम् ॥ ३७० ॥ क्लीबं स्वर्णे हरिच्छुक्लमिश्रवर्णे तु पुंस्ययम् । सिंहस्तु चित्र इत्याह त्रि तु वर्णसमन्विते || ३७१ ॥ तद्वर्णयुक्तसुरभौ पुनः स्त्री कर्बुरा तथा । जलौकाजातिभेदे च सविषे तस्य लक्षणम् ॥ ३७२ ॥ या छिन्नोन्नतकुक्षिः स्याद् वर्मिमत्स्यवदायता । सविषा कबुर्रा नामेत्यथ स्यात् कच्छुरस्त्रिषु ॥ ३७३ ॥ १. 'वा' रू. क. पाठ:. २. 'पि' क. पाठः.