प्रकृतीति। प्रकृतिर्मूलप्रकृतिः सर्वकारणत्वाद्, या प्रधानमव्यक्तमविद्या मायेत्यादिशब्दैरभिधीयते, महद् महत्तत्त्वं मूलप्रकृतिकार्यम्, अहङ्कारा महत उत्पन्नाः सात्त्विकराजसतामसाः, मात्रास्तामसाहङ्कारकार्याण्यपञ्चीकृतपञ्चभूतानि शब्दस्पर्शरूपरसगन्धरूपाणि, भूतानि पञ्च महाभूतानि पृथिव्यप्तेजोवाय्वाकाशरूपाणि, हृद् मनः, दशानामक्षाणामिन्द्रियाणां घ्राणरसनचक्षुःश्रोत्रत्वग्वाक्पाणिपादपायूपस्थानां
समाद्दारो दशाक्षी । एवं चतुर्विंशतितत्त्वानि । पूरुषः पुरुषो जीवेश्वरभेदाद् द्विधा
इति विदितो विभागो येन स तथा । असौ जीवः । प्रकृत्या मायया, तत्कार्यशरीरादिबन्धैर्वा ॥ २ ॥
ननु बन्धस्य वास्तवत्वे जीवस्य तस्माद् मोक्षो न स्यादित्याशङ्कय तस्याविद्याविलसितत्वेन ज्ञाननिवर्त्यत्वमाह
प्रकृतिगतगुणौघैर्नाज्यते पुरुषोऽयं |
प्रकृतीति । प्रकृतिरिति प्रकृतिकार्यचतुर्विंशतितत्त्वमयानि जरायुजाण्डजस्वेदजोद्भिज्जानि चतुर्विधानि शरीराण्युच्यन्ते, तद्गतगुणौघाः कर्तृत्वभोक्तृत्वादयः, तैर्नाज्यते नोपरज्यते। शरीरस्थोऽप्ययं जीवः परमार्थतः शररिधर्मैः कर्तृत्वभोक्तृत्वजन्ममरणादिभिर्न लिप्यत इत्यर्थः । अयं पुरुषो यदि तस्यां प्रकृत्यां शरीरादौ सजति अहं ममेत्यभिमन्यते, तर्हि तद्गुणाः प्रकृतिगुणास्तं भजेरन् जननमरणादिसंसारदुःखमनुभावयन्तीत्यर्थः । अत्र यदिशब्दः प्रकृतिसंबन्धस्यापरमार्थत्वं द्योतयति। मदनुभजनमीश्वरप्रणिधानं, तत्त्वालोचनं ब्रह्मज्ञानं, तैः । तत्र श्रवणमनननिदिध्यासनरूपप्रकारभेदाद् बहुवचनम् | सा प्रकृतिरपेयात् । तदुक्तं “तीव्रेणात्मसमाघिना । प्रकृतिः पुरुषस्येह दह्यमाना त्वहर्निशम् । तिरोभवित्री” ( श्रीमा. स्क. ३. अ. २७. क्ष्लो. २२, २३) इति ॥ ३ ॥
ईश्वरभजनस्याष्टाङ्गत्वमाह–
विमलमतिरुपात्तैरासनाद्यैर्मदङ्गं |