पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/१०२

एतत् पृष्ठम् परिष्कृतम् अस्ति
८६
[स्कन्धः-३
नारायणीये

शरीरं नीत्वा पाशैर्गले बद्ध्वाकृष्य त्रिभिर्मुहूर्तैर्नवनवतिसहस्रयोजनदूरे यमसदनं प्रापितोऽष्टाविंशतिकोटिनरकभेदान् पापतारतम्यनानुभूयानन्तरं तृणादिषु विंशतिलक्षं जन्मान्यवाप्य जलजन्तुषु नवलक्षं कृमिजातिष्वेकादशलक्षं पक्षिजातिषु दशलक्षं चतुष्पाज्जातिषु सप्तकोटिजन्मानि चावाप्यानन्तरं मनुष्यजातिषु चतुर्लक्षं ब्राह्मणजातिषु हीनमध्योत्तमतया शतं च जन्मान्यवाप्य तत्र पुनरपि पापकृञ्चेन्नरकेषु पतति” इति ॥ ६ ॥

 सम्प्रति समाभ्यां पुण्यपापाभ्यां पुनः पुनर्मर्त्यलोकप्राप्तिमाह-

युवतिजठरखिन्नो जातबोधोऽप्यकाण्डे
 प्रसवगलितबोधः पीडयोल्लङ्घय बाल्यम् ।
पुनरपि वत मुह्यत्येव तारुण्यकाले
 कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥ ७ ॥

 युवतीति । मातुर्गर्भे विमूत्रगर्ते खिन्नः कटुम्लक्षारोष्णैर्मातृभुक्तान्नपानादिभिः कृमिभिश्चोपद्रुतः अकाण्डे दुःखप्रतीकारकरणासम्भवकाले जातबोधः गर्भस्थः सप्तमे मासि दैवाल्लब्धस्मृतिर्भवति । तथापि जीवः किं नाम करोति । प्रसवे सूतिमारुतनोदनेन योनियन्त्रनिप्पीडनेन च गलितोऽपगतो जन्मशतसञ्चितकर्मविषयो बोधो यस्य । पुनश्च पीडयेष्टानिष्टप्राप्तिपरिहारासामर्थ्यसम्भूतेन दुःखेन संह बाल्यमुल्लङ्घय पुनरपि तारुण्यकाले भगवद्भजनसामर्थ्य सत्यपि मुह्यत्येव । कामक्रोधपराधीनः सन् काम्यं निषिद्धंवा कर्म कुर्वाणस्तमो विशतीत्यर्थः ॥ ७ ॥

 केवलेन पुण्येन स्वर्गादिगतिं दर्शयति-

पितृसुरगणयाजी धार्मिको यो गृहस्थः
 स च निपतति काले दक्षिणाध्वोपगामी ।
माय निहितमकामं कर्म तूदक्पथार्थं
 कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥ ८ ॥

 पित्रिति । भगवद्धर्मविमुखतया पितॄन् सुरगणांश्च सर्वकाम्यादिफलकामनया यष्टुं शीलमस्येति तथा । धार्मिकः निषिद्धकर्मपरित्यागेन केवलविहितकर्मानुष्ठाता ।</poem>