पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/१०६

एतत् पृष्ठम् परिष्कृतम् अस्ति
९०
[स्कन्धः - ४
नारायणीये

स्तपस्यति सत्यन्यो युध्यति, तथान्यस्मिन्नपीत्यर्थः । शिष्टैककङ्कटम् अवशिष्टैककवचं न्यहुतामवधिष्टाम् ॥ ३ ॥

अन्वाचरन्नुपदिशन्नपि मोक्षधर्मं
 त्वं भ्रातृमान् बदरिकाश्रममध्यवात्सीः ।
शक्रोऽथ ते शमतपोबलनिस्सहात्मा
 दिव्याङ्गना[]परिवृतं प्रजिघाय मारम् ॥ ४ ॥

 अन्वाचरन्निति । लोकसङ्ग्रहणार्थं स्वयमनुतिष्ठन्, उपदिशन् तदर्थिभ्यो नारदादिभ्य इति शेषः । मोक्षधर्मं निवृत्तिलक्षणं धर्मम् | त्वं श्रीनारायणः भ्रातृमान् नरेण भ्रात्रा सहितः । शमेनेन्द्रियनिग्रहेण तपोबलेन च निस्सह ईर्ष्यायुक्त आत्मा मनो यस्य स तथा । प्रजिघाय प्रेषयामास । अयं तपसा स्वर्गं जिघृक्षतीति शङ्कया तपोनाशाय कामं सपरिवारं प्रेषयामासेत्यर्थः ॥ ४ ॥

 अथ शऋप्रहितस्य कामस्य प्रवृत्तिमाह -

कामो वसन्तमलयानिलबन्धुशाली
 कान्ताकटाक्षविशिखैर्विकसद्विलासैः ।
विध्यन्मुहुर्मुहुरकम्पमुदीक्ष्य च त्वां
 भीतस्त्वयाथ जगदे मृदुहासभाजा ॥ ५ ॥

 काम इति । कान्ता दिव्याङ्गनास्तासां कटाक्षा एव विशिखाः तैः विकसन्तोऽभिव्यक्ता विलासा भ्रूचलनादयः पत्रस्थानीया येषु तैः मुहुर्मुहुर्विध्यन् अकम्पं समाधेरचलचित्तं त्वां भीतः सन् उदीक्ष्य दूरादेवोन्नमितवदनः सन्नवलोक्याथ मृदुहासभाजा मन्दस्मितसहितेन त्वया जगदे ॥ ५ ॥

भीत्यालमङ्गजवसन्तमुराङ्गना ! वो
 मन्यानसं त्विह जुषध्वमिति ब्रुवाणः ।
त्वं विस्मयेन परितः स्तुत्रतामथैषां
 प्रादर्शयः स्वपरिचारककातराक्षीः ॥ ६ ॥


  1. 'नागणवृ' घ. पाठः.