रेमे चिरं भवदनुग्रहपूर्णकाम- |
पुनरुत्तमचरितमाह ----
यक्षेण देव ! निहते पुनरुत्तमेऽस्मिन् |
यक्षेणेति । उत्तमे मृगया[१]यां केनचिद् यक्षेण युद्धे निहतेऽनन्तरं स ध्रुवो भ्रातृवधामर्षेण यक्षैर्युद्धनिरतस्तान् निहतवान्, मनोः पितामहस्योक्त्या विरतश्चाभूत् । अय ध्रुवस्य शान्त्या युद्धनिवृत्त्या ध्रुवसमीपमागताद् धनदाद् राजराजाद् वरं वृणीष्वेत्युक्तो ध्रुवस्त्वद्भक्तिमेवावृणोत् । अत्र हेतुर्महात्मेति ॥ १० ॥
अथ ध्रुवस्य स्वादप्राप्तिमाह -
अन्ते भवत्पुरुषनीतविमानयातो |
अन्त इति । अन्ते षड्विंशद्वर्षसहस्रं राज्यमनुभूय तदन्ते भवत्पुरुषाभ्यां सुनन्दनन्दाभ्यां नीतेन विमानेन यातो गतः सन् मात्रा सुनीत्या समं सह मुदितः सन्तुष्ट अयमास्ते इत्यनेनाधुनापि तस्य विद्यमानत्वं नक्षत्ररूपेण दृश्यमानत्वं च सूचितम् ॥ ११ ॥
इति ध्रुवचरितवर्णनं सप्तदशं दशकं सैकम् ।
- ↑ 'यां याते के' क. पाठः.