पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/११६

एतत् पृष्ठम् परिष्कृतम् अस्ति
१००
[स्कन्धः - ४
नारायणीये

सत्रस्थं मुनिनिवहं हितानि शंस-
 न्नैक्षिष्ठाः सनकमुखान् मुनीन् पुरस्तात् ॥ ९ ॥

 तद्दत्तमिति । तेन विष्णुना दत्तं वरमेकामनपायिनीं भक्तिमुपलभ्यानन्तरं गङ्गान्ते गङ्गायमुनयोर्मध्ये विहितं पदं स्थानं यस्य स तथा । तत्र वसन् कदापि सत्रस्थं सत्रयागे प्राप्तं मुनीनां देवर्षिब्रह्मर्षिराजर्षीणां निवहं समूहं हितानि प्रवृत्तिनिवृत्तिलक्षणं धर्मद्वयं शंसन् उपदिशन् तदन्ते सनकमुखान् सनकसनन्दसनातनसनत्कुमारान् ऐक्षिष्ठा दृष्टवान् ॥ ९ ॥

विज्ञानं सनकमुखोदितं दधानः
 स्वात्मानं स्वयमगमो बनान्तसेवी ।
तत्तादृक्पृथुवपुरीश ! सत्वरं मे
 रोगौघं प्रशमय वातगेहवासिन् ! ॥ १० ॥

 विज्ञानमिति । सनकमुखोदितं विज्ञानं ब्रह्मज्ञानं दधानः सम्यगवधार्य स्वयं जगदनुग्रहायाङ्गीकृतसत्त्वविग्रहस्त्वं स्वात्मानं स्वस्वरूपं परब्रह्मागमः अहं ब्रह्मेत्यनुभूतवान् | पश्चाच्च वनान्तसेवी पुत्रे राज्यं न्यस्य वनं गतस्तपश्चरन् स्वयं स्वात्मानमगमः प्राप्तवान् । परब्रह्ममात्रमु[]पतिष्ठसे स्म इति भावः ॥ १० ॥

इति पृथुचरितवर्णनम् अष्टादशं दशकम् ।


 अथ प्राचीनबर्हिषश्चरितमारभते-

पृथोस्तु नप्ता पृथुधर्मकर्मठः प्राचीनवर्हिर्युवतौ शतद्भुतौ ।
प्रचेतसो नाम सुचेतसः सुतानजीजनत् त्वत्करुणाकुरानिव ॥ १ ॥

 पृथोरिति । नप्ता पौत्रस्य पुत्रः । पृथोः पुत्रो विजिताश्वः, तत्पुत्रो हविर्धानः, तत्पुत्रो बर्हिष्मदयमुच्यते । स च पृथुर्विस्तृतो धर्मो यस्य, यद्वा पृथोरिव धर्मो यस्य सः पृथुधर्मा कर्मठः कर्मशूरः, कर्मकाण्डे निष्णात इत्यर्थः । अत एव


  1. 'मवाते' क. पाठः.