प्राचीनाग्नैः कुशैरास्तृतमिदं भूमण्डलमिति प्राचीनबर्हिरिति नामास्याभृत् । स च शतद्रुतौ भार्यायां प्रचेतसो नामेति प्रचेतस इति तुल्यनाम्नः सुतानजीजनत् । ते च सर्वे सुचेतसः । अत एव त्वत्करुणायाः प्राचीनबर्हिर्विषयाया अङ्करानिवेति ॥ १ ॥
पितुः सिसृक्षानिरतस्य शासनाद् भवत्तपस्यानिरता दशापि ते । |
पितुरिति । सिसृक्षानिरतस्य प्रजासर्गकामस्य प्रजाः सृजतेति शासनात् ते प्रचेतसो दशापि भवत्तपस्यायां निरताः ॥ २ ॥
अथ भगवान् रुद्रस्तत्रागत्य तेषां भगवत्स्तोत्रमुपदिदेशेत्याह---
तदा भवत्तीर्थमिदं समागतो भवो भवत्सेवकदर्शनादृतः । |
स्तवमिति । भवानेव सुखं भवत्सुखं ब्रह्मानन्दः तस्यास्वादने रस आग्रहः ॥
तपोभिरेषामतिमात्रवर्धिभिः स यज्ञहिंसानिरतोऽपि पावितः । |
तपोभिरिति । स यज्ञहिंसानिरतो वेनः पृथोर्जनकः पावितः दुरितानेवृत्तिद्वारा नरकादुत्तारितः । तेषां पिता प्राचीनबर्हिरपि गृहयातेन नारदेन प्रदर्शित
उपदिष्ट आत्मा श्रीहरिर्यस्य, 'आप्तत्वाच्च प्रमातृत्वादात्मा हि परमो हरिरि'त्युक्तत्वात् । भवदात्मतां सायुज्यम् ॥ ५ ॥
अथ भक्तवात्सल्येनैव तेषां त्वं प्रादुरभूरित्याह---
कृपाबलेनैव ततः प्रचेतसां प्रकाशमागाः पतंगेन्द्रवाहनः । |