पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/१३३

एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् - २४]
११७
प्रह्लादचरितवर्णनम् ।

गिरीन्द्रावक्षिप्तोऽ[]प्यहह परमात्मन्नयि विभो !
 त्वयि न्यस्तात्मत्वात् किमपि न निपीडामभजत ॥ ७ ॥

 स इति । परमात्माने त्वाय न्यस्त आत्मा मनो यस्य | अथवात्मा जीवः, ब्रह्मभूतत्वादित्यर्थः ॥ ७ ॥

ततः शङ्काविष्टः स पुनरतिदुष्टोऽस्य जनको
 गुरूक्त्या तद्गेहे किल वरुणपाशैस्तमरुणत् ।
गुरोधासान्निध्ये स पुनरनुगान् दैत्यतनयान्
 भवद्भक्तेस्तत्त्वं परममपि विज्ञानमशिषत् ॥ ८ ॥

 तत इति । तद्गेहे गुरुगृहे स ग्रह्लादोऽनुगान् सखीन् भवद्भक्तेस्तत्त्वं स्वरूपं कारणं फलं च परमं विज्ञानं ब्रह्मज्ञानमप्यशिषद् उपदिदेश ॥ ८ ॥

पिता शृण्वन् वालप्रकरमखिलं त्वत्स्तुतिपरं
 रुषान्धः प्राहैनं कुलहतक ! कस्ते बलमिति ।
वलं मे वैकुण्ठस्तव च जगतां चापि स वलं
 स एव त्रैलोक्यं सकलमिति धीरोऽयमगढीत् ॥ ९॥

 पितेति । कुलहतक ! अनुराधम ! ममाज्ञालङ्घने कस्ते बलमिति पिता प्राह पप्रच्छ । वैकुण्ठो विष्णुर्मे बलं, न केवलं मम, तवापि त्रिभुवनविजये स विष्णुरेव बलं, जगतां जगद्वासिनामपि । किञ्च सकलं त्रैलोक्यं स विष्णुरेव, न ततः पृथक् किञ्चिदप्यस्तीत्ययं प्रह्लादोऽगदीद् व्यक्तमुक्तवान् । धीरो निर्भयो विद्वान् वा ॥ ९ ॥

 तदनन्तरं हिरण्यकशिपोः प्रवृत्तिमाह -

अरे ! क्कासौ क्कासौ सकलजगदात्मा हरिरिति
 प्रभिन्ते स्म स्तम्भं चलितकरवालो दितिसुतः ।
अतः पश्चाद् विष्णो! न हि वदितुमीशोऽस्मि सहसा
 कृपात्मन् ! विश्वात्मन् ! पवनपुरवासिन्! मृडय माम् ॥ १० ॥


  1. 'ह' क. घ. पाठः.