अरे इति । सकलं जगद् आत्मा स्वरूपं यस्यासौ हरिः क्वेति दुर्घटत्वेन कोपावेशेन चासकृदुच्चरन्नेव स्तम्भं प्रभिन्ते स्म ताडितवान् । अतः पश्चात् स्तम्भभञ्जनानन्तरं तत्र किं जातमिति न हि सहसा वक्तुमीशोऽस्मि । कृपायुक्त आत्मा यस्य, हे कृपात्मन्! भक्तवत्सल ! विश्वात्मन् ! स्पष्टविश्वात्म[१]तत्त्व ! हे विष्णो ! जगद्व्यापनशील! हे पवनपुरवासिन् ! मां मृडय सुखय ॥ १० ॥
इति प्रह्लादचरिते नृसिंहाविर्भावप्रसङ्गवर्णनं चतुर्विंशं दशकम् ।
स्तम्भ इति । एवं स्तम्भभञ्जनानन्तरं प्रादुर्भवतस्तव घोरो रवः सिंहनादोऽभूत् । घोरत्वमेवाह – घट्टयतो निघ्नतः । आधूर्णज्जगदण्डकुण्डकुहरः सम्भ्रान्तब्रह्माण्डकटाहान्तर्गतचराचरः । पूर्वे कदाप्यश्रुतं यं श्रुत्वा दैत्यस्य हिरण्यकशिपोर्हृदये कश्चनानिर्देश्यरूपः कम्पः सम्पपात । अपिच अम्भोजभूरपि विष्टपात् सत्यलोकाच्चलितः किमिदमकाण्डे कल्पापाय इति सम्भ्रान्तोऽभूत् ॥ १ ॥
दैत्ये दिक्षु विसृष्टचक्षुषि महासंरम्भिणि स्तम्भतः |
दैत्य इति । विसृष्टचक्षुषि · सर्वतः सञ्चारितनयने सति न मृगात्मकं न मनुजाकारं नरसिंहाकारं वपुः तद् दृष्ट्वा किं किमेतद् भीषणमद्भुतं चेति व्युद्भ्रान्तचित्तेऽसुरे हिरण्यकशिपौ विस्फूर्जद्भिर्विकस्वरैर्धवलोमरोमभिः विकसत् प्रकाशमानं च वर्ष्म स्वरूपं यस्य स त्वं समाजृम्भथाः स्फुटनिर्गतोन्नतरूपोऽभूः ॥ २ ॥