भगवतवानुगृहीतां फलश्रुतिमाह
एतद् वृत्तं त्वां च मां व प्रगे यो गायेत् सोऽयं भूयसे श्रेयसे स्यात् । |
एतदिति । प्रगे प्रातः । वृत्तं गजेन्द्रमोक्षणरूपं हरिचरितम् । भूयसे श्रेयसे स्याद् मोक्षप्राप्तियोग्यो भवेदित्युक्त्वानुगृह्य | धिष्ण्यं वैकुण्ठम् ॥ १० ॥
इति गजेन्द्रमोक्षवर्णनं पड़विशं दशकम् ।
अथ समुद्रदृष्टान्तेन सम्पदि सत्यां तामर्थिषु स्वात्मना सह समर्पयेदित्ययं धर्मः प्रकाश्यते । स हि सुरासुरेभ्बोऽर्थिभ्य आत्ममथनेन सकलसम्पत्समर्पणं कृतवानिति जलधिमथनतदुपयोगिभगवदवतारचरितकथनाय प्रथमं देवानां शापनिमित्तैश्चर्यभ्रंशमाह द्वाभ्यां----
दुर्वासाः सुरवनिताग्तदिव्यमाल्यं शक्राय स्वयमुपदाय तत्र भूयः । |
दुर्वासा इति । सुरवनिताया हस्ताल्लब्धं शक्रायैरावतमारुह्य [१]गच्छते । उपदाय दत्त्वा । तत्र दिव्यमाल्ये । शक्रं नि:श्रीका (देवा) भवन्त्विति शशाप । त्वदितरदेवताः श्रीशङ्करादयः, दुर्वासा हि शङ्करांशजः ॥ १ ॥
शापेन प्रथितजरेऽथ निर्जरेन्द्रे देवेष्वप्यसुरजितेषु निष्प्रभेषु । |
शापेनेति । हे निर्वाणप्रभव ! मोक्षप्राप्तिस्थानभूत ! ॥ २ ॥
ब्रह्माद्यैर्नुतमहिमा चिरं तदानीं प्रादुःषन् वरद ! पुरः परेण धाम्ना । |
+ 'निःश्रीको भव त्वमिति' इति वा पाउथम् । * 'मथे विलोडने' भौवादिकः ।
- ↑ स्थिताय उ' क. पाठ:.